SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ ( २ ) स्याद्वादामृतपानलालसधियां ये कामपूत क्षमाः, युक्तिव्रात समर्थितागमलसद् गूढोक्तिकान्ताशयाः ॥ तान् मान्यान् हरिभद्रसूरिप्रमुखान् सिद्धान्तवाचस्पतीन्, ज्ञाताशेषमताशयाननुपमान् शास्त्रार्थगत्यै नुमः ॥ ३ ॥ श्रीमन्तो गुरवो गुरोरपिगुरो नॅमीश्वरा यत्कृतिः, सम्मत्यादिकतर्कशास्त्रविवृतौ मोदप्रदा धोमताम् ॥ तीर्थोद्वारमुखाञ्च धर्मकरणे शुद्धप्रयत्नाशयान्, तान् भूयः प्रणमामि सङ्गतिमितान् स्वान्ते नितान्तं सदा ॥ ४ ॥ लावण्यद्रविडव्ययो बहुविधो यत् काव्यकृत्ये वरे, यच्छास्त्रार्थविचारमग्नहृदये नो लौकिकी तर्कणा ॥ तं सूरिप्रवरं गुरोरपिगुरुं लावण्यसूरि स्तुमो, व्याख्यानैकविचक्षणं सुकठिन- ग्रन्थोधवृत्तिक्रियम् ॥५॥ दक्षं धर्मं प्रधानकार्यकरणे सत्पक्ष संस्थापने, कामक्रोधमुखारिसङ्घदलनेऽपीष्टार्थ संवादने ॥ रत्नं व्याकरणे कat दिनपति, व्याख्यातचूडामणि, पूज्यं शास्त्रविशारदं गुरुमह, श्रीदक्षसूरि स्तुवे ॥ ६॥ [ अनुष्टुब - वृत्तम् ] जैनं साङ्ख्यं चाक्षपाद, काणादं सौगतं तथा ॥ मीमांसाभिधमित्येवं षट्दर्शनमुदीरितम् ॥ ७ ॥ संक्षेपतः सुशीलाख्यः, सूरि स्तेषामनुक्रमात् ॥ वर्णनं दर्पणाख्यं सद्, वच्मि बालक बोधदम् ॥ ८ ॥
SR No.022428
Book TitleShaddarshan Darpanam
Original Sutra AuthorN/A
AuthorVijaysushilsuri
PublisherGyanopasak Samiti
Publication Year1976
Total Pages174
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy