SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ १७२ ] [ तत्त्वबोधिनीविवृतिविभूषितम् तरार्थत्वं युक्तम्, न चैवं ऋजुमूत्रकृतसत्तापेक्षयाऽसत्ताग्राहिणो व्यवहारस्याऽपि ततो विशेषिततरार्थत्वप्रसङ्गदूषणानुद्धारः, सम्प्रदायाऽविरुद्धभङ्गविषयीभूतेनाथन विशेषिततरत्वस्याभिधित्सितत्वात् , सम्प्रदायश्चोत्तरोत्तरभङ्गप्रवृत्तावुत्तरोत्तरनयावलम्बनेनैव दृष्टो नाऽन्यथेति न कश्चिद् दोष इति विभावनीयं सुधीभिः ॥ ___ अथवा लिङ्ग-वचने समाश्रित्य विशेषिततरं वस्त्विच्छति शब्दनय इति दर्शयन्नाह भाष्यकृत् "वत्धुमविसेसओ वा जं भिन्नाभिन्नलिंग-वयणपि । इच्छइ रिउसुत्तनओ विसेसियतरं तयं सद्दो" । [विशेषावश्यकभाष्यगाथा-२२३३ ] सत्वं न स्त्रीकरोतीत्येतावता विपरीतमसत्त्वमेवोररीकरोत्येवम्भू. तासत्त्वग्राहिणो व्यवहारस्य सूत्राद् विशेषिततरत्वप्रसङ्गः संलग्न एवेत्याशङ्कय प्रतिक्षिपति- न चवमिति । एवं केनविद् भङ्गन विशेषिततरत्वाभ्युपगमे ततः ऋजुसूत्रात्। निषेधे हेतुमाह-सम्प्रदायाविरुद्धेतिप्रथमभङ्गो यन्नयापेक्षया द्वितीयभङ्गस्तदुत्तरनयापेक्षयैव सम्प्रदायसिद्धः, व्यवहारस्तु ऋजुसूबात् पूर्वनय एव नोत्तरनय इति ऋजुसूत्रस्वीकृतसत्ताग्राहकप्रथमभङ्गक्लप्तौ द्वितीयभङ्गोऽसत्वग्राहकस्तदु. त्तरनयेनैव सम्प्रदायाविरुद्ध इति न व्यवहारसमाश्रितद्वितीयभङ्गार्थाऽसत्त्वमुपादाय व्यवहारस्य ऋजुसूत्राद विशेषिततरार्थत्वप्रसङ्ग इत्यर्थः, अस्यार्थस्य सूक्ष्मेक्षिकामात्रगम्यत्वान्नापाततो विचाराकुशलानां बुद्धिगम्यत्वमत आह- इति विभावनीयं सुधीभिरिति । प्रकारान्तरेण ऋजुसूत्राद विशेषिततरार्थत्वं शदनयस्योपदर्शयति-अथवेति। लिङ्गेति-लिङ्गं च वचनं च लिङ्गवचने, ते समाश्रित्य ऋजुसूत्राद् विशेषिततरं वस्स्वभ्युपगच्छति शब्दनय इति यावत् , ऋजुसूत्रस्तु लिङ्गवचनभेदेऽप्यभिन्नमेव प्रत्युत्पन्नं वस्त्वभ्युप
SR No.022427
Book TitleAnekant Vyavastha Prakaranam Part 02
Original Sutra AuthorN/A
AuthorDakshvijay
PublisherVijay Lavanyasurishwar Gyanmandir
Publication Year1958
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy