SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ अनेकान्तव्यवस्थाप्रकरणम् ] [ १७९. पर्यायाश्रिता च शब्द-समभिरूंढेवभूतैः सूचिता, तथाप्येतत्प्रकारद्वयामिधानमर्थ व्यञ्जनसाधारणपर्यायसामान्याश्रितसप्तभङ्ग्या अप्युपलक्षणम् , सा च स्व-परपर्यायाणां क्रम-युगपद्विवक्षावशालयद्वयेनाऽशुद्ध-शुद्ध-शुद्धतरपर्यायविवक्षया च नयत्रयेणाऽपि सम्भवतीति ऋजुसूत्र-शब्दप्रयुक्तसप्तभङ्गया द्वितीयादिना व्यवहारजुसूत्र-शब्दप्रयुक्तायां च तस्यां तृतीयादिना भङ्गेनर्जुसूत्राच्छब्दस्य विशेषितइति प्रथमो भङ्गः, व्यवहारेणासत्त्वग्राहिणा' स्यानास्त्येव घटः' इति द्वितीयो भङ्गा, सत्त्वाऽसत्त्वोभयत्रोदासीनेनर्जुसूत्रेण 'स्यादवक्तव्य एव घटः' इति तृतीयो भङ्गः, सहव्यवहाराभ्यां 'स्यादस्त्येव स्यान्नास्त्येव च घटः' इति तुरीयो भङ्गः, सङ्कहर्जुसूत्राभ्यां 'स्थादस्त्येव स्यादवक्तव्य एव च घटः' इति पञ्चमो भङ्गा, व्यवहारर्जुसूत्राभ्यां 'स्यान्नास्त्येव स्यादवक्तव्य एव च घटः' इति षष्ठो भङ्गः, सङ्गहव्यवहारर्जुसूत्रः 'स्यादस्त्येव स्यान्नास्त्येव स्यादवक्तव्य एव च घटः' इत्येवमर्थपर्यायाश्रिता सप्तभङ्गी समुल्लसति, इत्थमेव शब्दसमभिरूढेवम्भूतैः शब्दनयाश्रिता सप्तभङ्गी समवसेया। तथाऽपि निरुक्तसप्तभङ्गीद्वयसूचनेऽपि । एतत्प्रकारद्वयाभिधानम् अर्थपर्यायसमाश्रितसप्तसङ्गी-व्यञ्जनपर्यायाश्रितसप्तभङ्गीद्वयाभिधानम्, अस्य 'उपलक्षणम्' इत्यनेनान्वयः, उपलक्षणमित्यस्य उपलक्षकमित्यर्थः। सा च अर्थ व्यञ्जनसाधारणपर्यायसमाश्रितसप्तभङ्गी पुनः, अस्य 'सम्भवति' इत्यनेनान्वयः। यदा नयद्वयसमुद्भूता साऽभिलषिता तदा ऋजुसूत्रशब्दप्रयुक्तसप्तभङ्गयाः ऋजुसूत्र-शब्दनयद्वयसमुदभूतायाः सप्तभङ्गया। द्वितीयादिना द्वितीयभङ्गादिना, आदिपदात् तृतीयभङ्गादेग्रहणम् , तेष्वपि शब्दाद्यभिमतपर्यायस्य विषयीकरणं समस्त्येव । यदा नयत्रयसमुदभूता सप्तभङ्गी समादृता भवति तदा व्यवहारर्जुसूत्र शब्दप्रयुक्तायां तस्यां सप्तभङ्गयाम, तृतीयादिना तृतीयभङ्गेन, अत्र तृतीयभङ्गाथस्य पञ्चमभङ्गादौ विषयीकरणतस्तेषामादिपदाद् ग्रहणम्।। ननु ऋजुसूत्रो यादशं सत्त्वमभ्युपगच्छति व्यवहारस्तादृशं
SR No.022427
Book TitleAnekant Vyavastha Prakaranam Part 02
Original Sutra AuthorN/A
AuthorDakshvijay
PublisherVijay Lavanyasurishwar Gyanmandir
Publication Year1958
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy