SearchBrowseAboutContactDonate
Page Preview
Page 583
Loading...
Download File
Download File
Page Text
________________ ४६१ -पृ० २२४] उपासकाध्ययनटीका यतयः तेषां रसोऽनुरागो येन सः तस्य । पुनः कथंभूतस्य । वनदेवताभिः विलुप्यमानचरणपरागस्य, कथंभूतैः तपःप्रारम्भः । अनेकश इति-अनेकशः बहुवारं त्रैलोक्यक्षोभकारिभिः, ध्यानधैयति--ध्यानेन आत्मस्वरूपचिन्तनेन, धैर्येण मनसोऽक्षोभेण च अवधूता विनाशिताः विष्वक् सर्वत: प्रत्यूहव्यूहाः विघ्नसमूहा यः पुनः कथंभूतः। अनन्येति--अन्यजनासंभविभिः, मनोविषयातिक्रामिभिः, आश्चर्यप्रभावास्पदैः, अनवधारितम् अनुद्दिष्टं विधानं भोजनं येषु तैः, तैः तः मूलोत्तरगुणेषु ग्रामणीभिः पुरोगमैः तपःप्रारम्भैः । पुनः कथंभूतस्य । सकलेति--सकलं च तत् ऐहिकसु खसाम्राज्यं च तस्य वरप्रदाने अवहिताः दत्तावधानाः आयाताः आगताः तथापि अवधीरिताः अवज्ञाताः तत्कारणात् विस्मिताः उपनता: नम्रीभूताः या वनदेवताः तासाम् अलकाः केशा एव अलयो भृङ्गाः तेषां कुलेन समूहेन विलुप्यमानः ह्रियमाणः चरणकमलयोः परागो यस्य तस्य । पुनः कथंभूतस्य । निर्वाणपथनिष्ठितात्मनः मक्तिमार्गे निष्ठित: निश्चयेन स्थितः आत्मा यस्य तथाभूतस्य रत्नत्रयपुरःसरस्य भगवतः सर्वसाधुपरमेष्ठिनः अष्टतयोमिष्टि करोमि इति स्वाहा । अपि चबोधेति-बोध एव आपगा नदी तस्याः प्रवाहेण, विध्यातो विध्वस्तः अनङ्गवह्निः यस्ते । विध्ये ति-- विधिना आगमकथितप्रकारेण पूजनेन आराध्याः पूज्याः अज्रयश्चरणा येषां ते साधवः साध्यबोधाय साधयितुं योग्यं साध्यं मुक्तिपदं रत्नत्रयं साध्यो बोध्यः आत्मा यस्य तत् साध्यबोध्यं केवलज्ञानं तस्मै वा तस्य बोधाय ज्ञानाय भवन्तु ॥ ४८९ ॥ अधना सम्यग्दर्शनरत्नस्य पजा। ॐजिनेति--जिनः दुर्जयकर्मठकर्मारातीन् जयतीति जिनः, अर्हन, जिनागमः जिनेन अर्हता प्रोक्तः आगमः द्वादशाङ्गानि आचारादीनि, जिनधर्मः तेन जिनेन प्रणीतो धर्मः क्षमादिलक्षणो दशविधः, जिनोक्तजीवादितत्त्वावधारणं च एभिः विजम्भितः प्रवृद्धः निरतिशयः निश्चयेन अतिशयो वैशिष्टयं यस्मिन् तथाभूतोऽभिनिवेशः परमार्थानाम् आप्तागमतपोभूतां दृढश्रद्धानं तदेव अधिष्ठानम् आधारः यासु तथाभूतासु चेतःप्रासादपरंपरासु । पुनः कथंभूतासु । प्रकाशितेति-प्रादुर्भूता या शङ्का जिनः अनेकान्तात्मकं सर्व प्रतिपादितं तद्यथार्थम् उत अन्यन्नित्यम् अनित्यं वा सर्वम् इति परमार्थम् एवंरूपा धीः शङ्का। सम्यग्दर्शनमाहात्म्यात् तपोमाहात्म्याच्च मम देवपदं नृपतिपदं वा लभताम् इति स्पृहा आकांक्षा प्राकाम्यमुच्यते । अवह्लादनम्-विचिकित्सा स्नानादिरहितस्य मुनेः शरीरं वीक्ष्य जुगुप्साकरणम् । कुमतातिः कुधर्मे तदाचरणवति पुरुषे प्रशंसादिकरणं मूढत्वम् । एते खलु विकाराः शल्यरूपाः तेषाम् उद्धारः अपनयनं यासु तासु चेत्तःप्रासादपरंपरासु । पुनः कथंभूतासु । प्रशमेति-प्रशमादिचतुष्टयस्य लक्षणानि प्रागुक्तानि एते प्रशमादय एव सुकृतिचेतःप्रासादपरंपरायाः स्तम्भाः तैरियं प्रासादपरंपरा संधृता भवति । पुनः कथंभूतासु । स्थितिकरणेति-धर्माद् भ्रश्यतो धर्मे स्थापन स्थितीकरणम । उपगहनम-धार्मिकजनदोषझम्पनम । वात्सल्यम-निर्मायेन मनसा धार्मिकजनस्य यथा योग्यम् आदरकरणम् । प्रभावना-दानतपोजिनपूजाविद्याविनयजिनधर्ममाहात्म्यसंवर्धनम् । स्थितिकरणोपगूहनवात्सल्यप्रभावनाभिः आचरिताः उत्सवसपर्याः महपूजाः यासु तासु । पुनः कथंभूतासु-अनेकेतिअनेके ये त्रिदशविशेषाः देवविशेषाः इन्द्रसामानिकादयः तेषां निर्मापिताः भूमिकाः यासु ताः । तथाभूतासु सुकृतिचेतःप्रासादपरंपरासु सुकृतीनां पुण्यवतां मनःसोधपंक्तिषु, कृतक्रोडाविहारमपि कृतः क्रोडायै विहारो येन तथाभूतमपि यत् सम्यग्दर्शनं निसर्गात् स्वभावतः महामुनीनां मन एव पयोधिः समुद्रः तेन सह परिचितं परिचयविशिष्टं भवति । अशेषेति-अशेषाः सकलाः ये भरतैरावतविदेहाः त्रीणि क्षेत्राणि वर्षधराश्च हिमबदादयः तेषां चक्रवर्ती स्वामी मेरुपर्वतः तस्य चूडामणिस्वरूपः तत्कालजन्मा तीर्थकरः तस्य कुलदैवतमेतत्सम्यग्दर्शनम् । अमरेति-अमरेश्वरा इन्द्राः तेषां या मतिर्ज्ञानं सा एव देवता तस्याः अवतंसः कर्णभूषणरूपम् एतत्सद्दर्शनं कल्पवल्लीपल्लवम् इव। अम्बरेति-अम्बरचरा विद्याधराः ते च ते लोका जनाः तेषां सम्यग्दर्शनमेतत् हृदयस्य एकम् अद्वितीयं मण्डनम् । अपवर्गेति-अपवर्गपुरं मुक्तिनगरं तत्र प्रवेशं कृत्वा यत् अगण्यपण्यस्य आत्मसात्करणं स्वीकरणं तदर्थ दीयमानं तस्य सत्यंकारमिवंतत्सम्यग्दर्शनम् । अवश्य मयततव्यम् इति सत्याकरणसदृशम् । अनुल्लध्येति-उल्लङ्घयितुम् अशक्यम् अवश्यभोग्यमिति भावः, एतादृग यत् दुरघं दुष्टम् अघं पापं तदेव घनघटा मेघसमूहः तस्य दुर्दिनानीव ये प्राणिनस्तेषु, ज्योतिरिति
SR No.022417
Book TitleUpasakadhyayan
Original Sutra AuthorSomdevsuri
AuthorKailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year2013
Total Pages664
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy