SearchBrowseAboutContactDonate
Page Preview
Page 582
Loading...
Download File
Download File
Page Text
________________ ४६० पं० जिनदासविरचिता [पृ०२२० रज्ञानानि तेषाम् उचितानि तदनुकूलानि यानि वचनानि तेषां प्रपञ्चा एव मरीचयः किरणा: तैः विदलितं निरस्तं सकलजनताकमलिन्या: मिथ्यात्वमोहान्धकारपटलं येन तथाभूतस्य । पुनः कथं भतस्य । ज्ञानेतिज्ञानस्य तपसश्च प्रभावेण प्रकाशितं जिनशासनं येन तस्य पुनः कथंभूतस्य । शिष्यसंपदा शिष्याणां विभवेन अशेषमिव सकलमिव भुवनं जगत् उद्धर्तुम् उद्यतस्य संनद्धस्य, भगवतो रत्नत्रयपुरःसरस्य आचार्यपरमेष्ठिन: अष्टतयीम् इष्टिं करोमोति स्वाहा । अपि च-विचार्यति-सर्वम् ऐतिह्यम् आगमं विचार्य मनसि चिन्तयित्वा आचार्यकम् आचार्यपदम् उपेयुषः प्राप्तवत: आचार्यत्रर्यान् हृदयाम्बुजे संचार्य अर्चामि पूजये ॥४८७॥ [पृष्ठ २२०-२२४ ] अथोपाध्यायपूजां वर्णयति-ॐ श्रीमदिति-श्रीमतः समवसरणानन्तचतुष्टयेत्युभयलक्ष्मीमत: भगवतः अर्हतः । वदनारविन्दात् मुखकमलात् । विनिर्गतद्वादशाङ्गानि आचाराङ्गादीनि. उत्पादादिचतुर्दशपूर्वाणि, सामायिकादिचतुर्दशप्रकीर्णकानि, एभिः विस्तीणों यः श्रुतपारावारः श्रुतज्ञानसमुद्रः तस्य पारंगमस्य । पुनः कथंभूतस्य । अपारेति-अपारश्चासौ संपरायः संसारः स एव अरण्यं तस्मात् विनिर्गम: बहिनिर्गमनं तदर्थं यः अनुपसर्गः बाधारहितः मार्गः तस्मिन् निरतास्तत्पराः ये विनेयजनाः शिष्यजनाः तेषां शरण्यस्य शरणे साधोः। पनः कथंभूतस्य । दुरन्तैकान्तेति-दुरन्तः दृष्फलः स चासो एकान्तवादः सर्वथा नित्यादिधर्माभिनिवेशः सा एवं मदमषी मदकृष्णजलं तेन मलिना ये परवादिकारणः परवादिगजाः तेषां कण्ठीरवोत्कण्ठेति-कण्ठयां रवो गर्जना यस्य सः कण्ठीरवः सिंहः तस्य उत्कण्ठः उत ऊर्ध्वं कण्ठात् निर्गतः स चासो कण्ठीरवः गर्जना तद्वत् भासमानाः याः प्रमाणनय-निक्षेपानुयोगानां वाचः तासां व्यतिकरः समूहो यस्य तथाभूतस्य । श्रवणेति-श्रवणम् आकर्णनम् । ग्रहणं शास्त्रार्थोपादानम् । अबगाहनं ज्ञानेन विषयस्य आलोडनम् । अवधारणा अविस्मरणम्, प्रयोग: विज्ञातमर्थम् अवलम्ब्य अन्यस्मिन्नर्थे व्याप्त्या तथाविधत्वसाधनं प्रयोगः । वाग्मित्वं प्रशस्ता वागस्यास्तीति वाग्मी तस्य भावः प्रशस्तवचनवक्तृत्वम् । कवित्वं-सरसतया विषयवर्णनशक्तिः। गमकशक्तिः गमयति बोधयति विषयान् लक्षणैर्यः स गमकः तस्य शक्तिः ताभिः विस्मापिता: आश्चर्य प्रापिता: विततनरनिलिम्पाम्बरचरचक्रवतिनः वितताः प्रसताः ये नराः निलिम्पा देवाः । अम्बरचराः आकाशगामिनः विद्याधराः। तेषां चक्रवर्तिनः स्वामिनः नपादयः तेषां सीमन्ताः केशवानि तेभ्यः प्रतिपर्यस्ताः गलिताः या उत्तंसस्रजः शिरोमालाः शेखराणीत्यर्थः तासां सौरभ सौगन्ध्यं तेन अधिवासितः संस्कारितः पादपीठस्य उपकण्ठः समोपप्रदेशः यस्य । पुनः कथं भूतस्य तस्य । व्रतेति-व्रतानाम् अहिंसादीनां महाव्रतानां विधानं समाचरणं तस्मिन् अनवद्यं हृदयं मनो यस्य तस्य भगवतः रत्नत्रयपुरस्सरस्य उपाध्यायपरमेष्ठिनोऽष्टतयोमिष्टि करोमीति स्वाहा । अपि च-अपास्तेति-अपास्ताः प्रतिविहिताः एकान्तवादिनाम् इन्द्राः प्रभवः यः तान् पराजितकान्तविबुधपतीन् । अपारागमपारगान् अपारइचासो आगमः तस्य पारं परतीरं गच्छन्तीति तान् उपाध्यायपरमेष्ठिनः श्रुतज्ञानलाभाय उपायभूताय अहं उपासे भजे ॥४८८॥ अधुना साधुपरमेष्ठिपूजनम् । ॐ विदितेति-विदितं ज्ञातं वेदितव्यं जीवादितत्त्वसप्तकं येन स तस्य । पुनः कथंभूतस्य । बाह्येति-बाह्यम् अनशनादिकमाचरणम्, अभ्यन्तरं च प्रायश्चित्तादिकम् इति बाह्याभ्यन्तराचरणे । करणत्रयं मनोवचःकायानां त्रयं करणत्रयम् अथवा अधःकरणम् अपूर्वकरणम् अनिबत्तिकरणं च परिणामविशेषाणां संज्ञाश्चेमाः, एभिः परिणामः जीवः सम्यग्दर्शनम्, अणुव्रतानि, महावतानि च लभते । एतत्त्रयविशुद्धिरेव त्रिपथगापगाप्रवाहः गङ्गानदीप्रवाहः । तेन निर्मलितः विनाशित: मनोजकुज. कुटुम्बाडम्बरो येन मनोजः मदनः स एव कुजः वृक्षः कुः पृथ्वी तस्या जायत इति कुजः तस्य कुटुम्बं रागद्वेष-मद-मात्सर्यादयः तस्य आडम्बरो दर्पः स निर्मूलितो येन तस्य तथाभूतस्य । पुनः कथंभूतस्य । अमराम्बरचरेति-अमरा देवाः, अम्बरचराः नभोगामिनः विद्याधराः तेषां नितम्बिन्यः रमण्यः तासां कदम्बः समूहः स एव नदः तस्मात् प्रादुर्भूतः मदनमद एव मकरन्दः मरन्दरसः तस्य दुर्दिनविनोदः एव अरविन्दं तस्य चन्द्रायमाणस्य मुकुलीकरणे चन्द्रवत् आचरणं कुर्वतः। पुनः कथंभूतस्य । उदितोदितेति-उत्तरोत्तरं प्रकर्ष प्राप्तानि यानि व्रतानि तेषां व्रात: समूहः तेन अपहसितः तिरस्कृतः अवाच्यकामनया निन्द्याभिलाषया पुत्रीसमागमाभिवाञ्छया चारित्रच्यतइचासो विरिञ्चः ब्रह्मा तपःप्रारम्भैः विरोचनश्चन्द्रः वैखानसा विश्वामित्रादि
SR No.022417
Book TitleUpasakadhyayan
Original Sutra AuthorSomdevsuri
AuthorKailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year2013
Total Pages664
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy