SearchBrowseAboutContactDonate
Page Preview
Page 555
Loading...
Download File
Download File
Page Text
________________ -पृ० १७९] उपासकाभ्ययनटीका श्रुतेति-श्रुतः आकर्णितः सौरूप्यातिशयः लावण्यप्रकर्षः येन, सः पुनः कथंभूतः । मनागितिमनाक् ईषत् उपरमन् अल्पीभावं व्रजन् तारुण्योदयः यौवनप्रकर्षः लावण्योदयः सौरूप्योन्नतिश्च यस्य सः, प्रयोगेण प्रयोगम् उपायं कृत्वा, तां सुलसाम्, आत्मसाच्चिकीर्षुः निजवशां कर्तुमिच्छुकः [ सगरः मन्दोदरों नाम धात्री विश्वभूति नाम पुरोहितम् अयोधननपालयं प्रति प्राहिणोत् ] कथंभूतां मन्दोदरों प्राहिणोत् । तौर्यत्रिक नृत्यगीतवाद्यं त्रयं तौर्यत्रिकं तूर्य मुरजादि तत्र भवं तौर्यम् । तोर्योपलक्षितं त्रिकम् इति विग्रहः । तस्य सूत्रं तस्मिन् भरतमुनिशास्त्रे इति, प्रतिकर्म विकल्पेषु प्रत्यङ्गं कर्म प्रतिकर्म शरीरस्य प्रत्यवयवप्रसाधनाथं वेशादिकरणं प्रतिकर्मोच्यते तस्य विकल्पाः स्नानस्रक्चन्दनपङ्कादयः तेषु, संभोगसिद्धान्ते कामशास्त्रे, विप्रश्न विद्यायां विविधाः प्रश्नाः हानिलाभनष्टमुष्टादिविषयाः तेषां विद्या शानं तस्याम्, स्त्रीपुरुषलक्षणेषु समुद्रषिप्रोक्तेषु, कथाख्यायिकास्यानप्रवह्निकासु कथा-प्रबन्धस्य अभिधेयस्य कल्पना स्वयं रचना, आख्यायिकाउपलब्धार्था स्वयम् अनुभूतार्थप्रतिपादनम् । आख्यानं सदृष्टान्तं कथाकथनम् । प्रवलिकासु अभिप्रायसूचनकथासु यथा संदेहः स्यात् तादृशगुप्ताभिधानासु, तासु तासु कलासु च परमसंवीणतालताधरित्रीम् उत्तमंचातुर्यवल्लीभूमि मन्दोदरी नाम धात्रीम् उपमातरम् । ज्योतिषेति-ज्योतिषशकुनादिशास्त्रेषु निशिता तीक्ष्णा मतिर्बुद्धिः तस्याः प्रसूतिः उत्पत्तिर्यस्मिन् तं विश्वभूतिं च बहुमानेन अत्यादरेण संभावितम् आह्लादितं मनो यस्य तं पुरोधसं पुरोहितं तत्र पुरि नगरे हस्तिनापुरे प्राहिणोत् । [मन्दोदरी विश्वभूतिश्च सुलसां सगरे प्रीतियुक्तां मधुपिङ्गले च विप्रोतिम् अकारयताम् ] कथंभूता मन्दोदरी। विशिकेति-विशिका वशीकरणं तस्याः आशयः अभिप्रायः स एव शार्दूलो व्याघ्रः तस्य दरीव मन्दोदरी तां पुरमुपगम्य । परेति-परेषां जनानां प्रतारणे वञ्चने प्रगल्भा प्रोडा मनीषा मतिर्यस्याः, कृतेति-अर्धवृद्धा कषायवसना विधवा 'कात्यायिनी' त्युच्यते कृतः विहितः कात्यायिनीवेषो यया सा मन्दोदरी। ताश्च ताश्च कलाः तत्तत्कलाः तासाम् अवलोकनं वीक्षणं तस्माज्जातं कुतूहलं यस्य सः तम् अयोधनपरापालम् । निजनाथेति-निजो नाथः स्वामी सगरो नप: तस्य अर्थसिद्धिः प्रयोजनसफलता तस्यां परवती अधीना रजितवती सती अयोधनं नुपम् अनुरक्तं विश्वसितं कुर्वाणा शुद्धान्तोपाध्याया भूत्वा शुद्धान्तम् अन्तःपुरं तत्र उपाध्याया अध्यापिका भूत्वा सुलसा सगरं ग्राहयामास । तथा बकोटवृत्तिवेधाः बकप्रकृतिषु जनेषु वेधाः ब्रह्मा महाकपटपटुरित्यर्थः । स पुरोषाश्च तैस्तैरादेशः ज्योतिश्शास्त्रफलैः तस्य नृपस्य सुयोधनस्य महादेव्याश्च अतिथेः वशीकृतचित्तवृत्तिःवशीकृता निजाधीना विहिता मनोवृत्तियेन सः। स्वयं विहितरचनः आत्मना कृतः श्लोकः मधुपिङ्गले विप्रीति विरक्ततां कारयति स्म। तेन विहितरचने पद्ये कुण्टे इतिमन्दे आलस्यवति नरे वायुना उन्नतहृदये उन्नतपृष्ठे व पुरुष षष्टिदोषाः सन्ति। एकाक्षे अशीतिः । बधिरे शतम् । वामने च ह्रस्वे नरि शतं विशं विशत्यधिक शर्त दोषाः सन्ति तु पिङ्गे पिङ्गले नरे दोषाः असंख्यया तत्र दोषाणां गणनाकरणं न शक्यम ॥३९२॥ मखस्येति-मुखस्य अधं शरीरं स्यात मखस्य शोभा पर्णा शरीरस्य तु ततोऽल्पा अर्धा । मुखं घ्राणार्धम् उच्यते यदि घ्राणं न स्यात् तर्हि विगतनासिकं मुखं न शोभते । घ्राणं नेत्राधं घ्राणे नासायां विद्यमानेऽपि नेत्रयोरभावे घ्राणं न शोभते । अतः शरीरमुखघ्राणेषु नयने परे उत्तमे ज्ञेये ॥३९३।। इत्यादिवर्णनैः विश्वभूतिः सुलसाया मनसि अप्रेम उदपादयत् [ततः सुलसा स्वयंवरमण्डपे सगरराजानं वृणुते स्म] ततः चाम्पेयमञ्जरीसौरभं चम्पकपुष्पमञ्जरीसौगन्ध्यमेव दुग्धं तस्य पाने लुब्धाः लोभिष्ठाः स्तनंधया इव पुष्पंधया भ्रमरा तत् । यथा पयःपाने लुग्धाः स्तनंधया भवन्ति तथा तेषु स्वयंवराह्वानशृङ्गारिताहकारेषु स्वयंवराह्वाने समागते शृङ्गारोऽस्ति यस्य शृङगारितः अहंकारो यस्ते शृङ्गारिताहंकाराः सगर्वाः इत्यर्थः । सगर्वेषु राजसु मिलितेषु मन्दोदरीवशमानसा मन्दोदर्यधीनमनाः सा सुलसा श्रुतिमनोहरं श्रुत्या शब्देन मनो हरति इति शब्दचेतोहरं सगरम् अवृणोत् वृणोति स्म । कथम्, यथा निम्नघरोपगा आपगा सागरं निम्नघरा नोचभूमिः ताम् उपगच्छनीति निम्नपरोपगा निम्नभूमिवाहिनी भापगा वाहिनी नदी सागरं गच्छति १. कथादीनाम् इदमपि लक्षणम्-कया चित्रार्षगा मेया स्यातार्षास्यायिका मता। दृष्टान्तस्योक्तिराख्यानं प्रवलीका प्रहेलिका ॥
SR No.022417
Book TitleUpasakadhyayan
Original Sutra AuthorSomdevsuri
AuthorKailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year2013
Total Pages664
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy