SearchBrowseAboutContactDonate
Page Preview
Page 554
Loading...
Download File
Download File
Page Text
________________ ४३२ पं० जिनदासविरचिता [पृ० १७७दोषतोयैरिति-शरीरिणां प्राणिनां चित्तवासांसि मनोवस्त्राणि दोषतोयः रागादिदोषजलैः संगन्तणि संगम गतवन्ति गुरूणि भारयुक्तानि भवन्ति । परं शरीरिणां जीवानां चित्तवासांसि मनोवस्त्राणि गुणग्रीष्मः अहिंसासत्याचौर्यादिगुणा एव ग्रीष्मर्तवः तैः संगन्तणि संगं गच्छन्ति दोषजलापनयात् लघुनि भाररहितानि भवन्ति । अत एव दोषांस्त्यक्त्वा गुणान् प्रतिका गृह्णोरन् ॥३८९॥ सत्यवागिति-सत्यवाक् सत्यं वचनं ब्रुवाणो व्रती सत्यस्य सामर्थ्यात्प्रभावात् वचःसिद्धि समश्नुते प्राप्नोति । तया स निग्रहानुग्रहं कतुं प्रभुर्भवति । अस्य वचःसिद्धि प्राप्तस्य प्रतिकस्य वाणी यत्र यत्र उपजायते प्रवर्तते तत्र तत्र जनानां मान्या भवेत् ॥३९०॥ तर्षेति-कैः मषाभाषामनोषित इत्याह तरेत्यादि । मृषाभाषामनीषितः मषाभाषायाम् असत्यभाषायां मनीषा बुद्धिरस्यास्तीति मृषाभाषामनीषितः। असत्यवचनेषु प्रेरितमतिर्नरः तर्षेण धनादेः अभिलाषया, ईयया परोत्कर्षासहिष्णतया, अमर्षेण क्रोधेन, हर्षेण । के दुःखं प्राप्नोति । जिह्वाच्छेदं दुःखम् अवाप्नोति परत्र च परलोके च गतिक्षति सुगतिविनाशं प्राप्नोति लभते तिर्यग्गति नरकगति वा लभते ॥३९१॥ [पृष्ठ १७७-१७६ ] श्रूयतामत्र असत्यफलस्योपाख्यानम्-जाङ्गलदेशेषु हस्तिनागनामावनीश्वरकुञ्जरजनिजातावतारे हस्तिनागपुरे जाङ्गलेति नाम्ना प्रथितेषु देशेषु हस्तिनागनामा अवन्याः भूमेः ईश्वरेषु नपेषु कुञ्जर इव गज इव तस्य जन्या जन्मना जातावतारे जातः अवतारो यस्य तस्मिन् हस्तिनागपुरे [ हस्तिनागनाम्ना नपेण विरचितत्वात् नगरस्यापि नाम हस्तिनागपुरमिति जातम् । ] अयोधनो नाम नृपतिस्तत्र बभूव । कथंभूतः सः । प्रचण्डेति-प्रचण्डौ विक्रमशालिनी तौ च तो दोर्दण्डौ बाहदण्डी तयोर्मण्डली तस्या मण्डनं भूषणं स च मण्डलामः खड्ग्रः तेन मण्डनं कलहः कण्डूः खर्जनम् अस्ति येषां ते कण्डूलाः भण्डनकण्डलास्ते च ते अरातयः शत्रवः तेषां खण्डिता च या मण्डनकण्डलारातिकीतिलता तस्या निबन्धनं हेतुः अयोधनो नाम भूपतिरभूत् । तस्य च अतिथि म महादेवी कृताभिषेका। या अनवरतेति-अनवरतं सततं वसूविश्राणनं धनदानं तेन प्रीणिताः संतोषं नीता अतिथयो यया सा। अनयोः अयोधनातिथ्योः सुता सुलसा माम सकलाश्च ताः कलाः नृत्यादयः तासाम् अवलोकनम् अर्जनं तस्मिन् अनलसा आलस्यरहिता सुलसा नाम । सा किल तया महादेव्या गर्भगतापि तया महादेव्या अतिथिना किल गर्भगतापि सा ज्ञातेयेन ज्ञातित्वेन एकोदरशालिनः एकस्मिन्नेव उदरे जातत्वात् शालिनः शोभमानस्य, रम्यकदेशनिवेशेतिरम्यकदेशे निवेशेन रचनया उपेतं सहितं यत्तौदनपुरं तत्र निवेशिनः तदधीशस्य । निर्विपक्षेति-निर्गता विपक्षाः शत्रवो यस्याः सा लक्ष्मीः रमा तया लक्षितस्य । अक्षणमङ्गलस्य अविनष्टमङ्गलस्य अविनष्टपुण्यस्य पिङ्गलस्य सूनवे मधुपिङ्गलाय सुलसा परिणता बभूव । कथंभूताय सूनवे गुणा एव गीर्वाणाचलो मेरुस्तस्य रत्नसानवे मणि प्रस्थाय पर्वतभागसमायेति भावः, पुनः कथंभूताय । दुर्वार इति-दुर्वाराः दुर्जेयाः ते वैरिणः तेषां वक्षःस्थलानि उरोभूमयः तेषाम् उद्दशनं विदारणं तदेव अवदानं प्रशस्तं कर्म तस्य उद्योगः प्रवृत्तिः तस्मै लागलाय हलसदृशाय मधुपिङ्गलाय तन्नामधेयाय सूनवे परिणीता दानयोग्येति संकल्पवती बभूव । भूभुजा च महोदयेन राज्ञा अयोधनेन महान् उदयः समुन्नतिः आधिपत्यं वा यस्य तथाभूतेन तेन, पुनः कथंभूतेन । विदितेतिविदितं ज्ञातं महादेव्याः अतिथेः हृदयं संकल्पो येन तेनापि विगणय्य विचारं कृत्वा, कथंभूतं विचारं कृत्वेति विप्रियते-“यस्य कस्यचिन्महाभागस्य महादेवशालिनः पुरुषस्य भाग्यः भोग्यतया संभोगयोग्यतया इदं स्त्रणं स्त्रीरूपं द्रविणं धनं तस्यैतद् भूयात् भवतात् । अत्र सर्वेषामपि वपुष्मतां वपुः शरीरम् अस्ति येषां ते वपष्मन्तः जीवाः तेषां देवमेव शरणम अवलम्बनम अस्ति । कथंभतं तत । अचिन्तितेति-अचिन्तितानि मनसा असंकल्पितानि यानि सुखानि दुःखानि च तेषाम् आगमः प्राप्तिः तेन अनुमेयः प्रभावः सामर्थ्य यस्य तत देवमेव शरणम् ।" इति विगणय्य स्वयंवरार्थ स्वयं स्वेच्छया पतिरनया सूलसया वियतामिति हेतोः भोम-भीष्म-भरत-भाग-संग-सगर-सुबन्धु-मधुपिङ्गलादीनामवनिपतीनां भूपतीनाम् उपदानकूलं उपदानानुकूलं मूलं प्रस्थापयांबभूवे उपदानं कन्याप्रदानं तस्य अनुकूलम् उचितं मूलं दूतैः संदेशं प्राहिणोति स्म । अत्रान्तरे मगधेति-मगधदेशानधिकृत्य प्रसिद्धिर्यस्याः तस्याम् अयोध्यायां नरवरः भूपतिः सगरो नाम । स किल किलेति वार्तायाम् । लास्येति-लास्यं नत्यम् आदिशब्देन गानवादनादिकं तस्य विलासः शोभा तस्य कोशलं चातुर्य तस्य रसः प्रोतिर्यस्यां तस्याः सुलसायाः कर्णपरम्परया वार्तया
SR No.022417
Book TitleUpasakadhyayan
Original Sutra AuthorSomdevsuri
AuthorKailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year2013
Total Pages664
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy