SearchBrowseAboutContactDonate
Page Preview
Page 547
Loading...
Download File
Download File
Page Text
________________ -पृ० १६९ ] उपासकाध्ययनटीका ४२५ प्रशान्तशुल्कभाटकभागहारव्यवहारम् अचीकरत् । वणिजां वैश्यानां प्रशान्तशुल्कं घट्टादिदेयद्रव्यम्, भाटकं गृहादिस्वामिने निवासार्थं व्यवहारार्थं वा देयद्रव्यं भाटकम्, भागहारव्यवहारम् उत्तमर्णाधमर्णयोः यो धनदानादिव्यवहारो भवति तत्रोत्तमर्णेन यत् अंशव्यवहारेण अधमर्णतः धनग्रहणं क्रियते स भागव्यवहारः उच्यते । एवंविधं व्यवहारं स पुरोहितोऽकरोत् । किं कृत्वा स व्यवहारमकरोत् । पेष्ठास्थानं क्रयाणपत्तनं पीठस्थानं ( ? ) विनिर्माय । कथंभूतं तत् । विभक्तेति - विभक्ताः पृथक्पृथक् स्थिता ये अनेके अपवरकाः अन्तर्गृहाणि तेषां या रचना तया शालिनीभिः शोभमानाभिः महाभाण्डवाहिनीभिः महावणिङ्मूलघनधारिणीभिः, गोशालोपशल्याभिः गवां शाला गोशाला तस्याः उपशल्याभिः समीपस्थिताभि: कुल्याभिः पटशालाभिः समन्वितम् । पुनः कथंभूतम् । अतिसुलभेति - अतिसुलभानां जलानां यवसानां तृणानाम् इन्धनानां काष्ठानां च प्रचारो यत्र तत् । पुनः कथंभूतं तत् । भाण्डनारम्भेति - भाण्डनं कलहः तस्यारम्भे उद्भटाः शूराः ये भरीरा योधास्तेषां पेटकपक्षः समूहपक्ष: तेन रक्षासारं कृतरक्षणत्वात् सारभूतम् पुनः कथंभूतम् । गोरुतेति — गोः धेनोः रुतं ध्वनिः यावद्दूरं श्रूयते तावत्प्रमाणं यद्वप्रं सस्यक्षेत्रम्, प्राकारः साल:. प्रतोलिः रथ्या, परिखा खातिका इत्यादिभिः सूत्रितं कृतं त्राणं रक्षणं यस्य तत् । पुनः कथंभूतम् । प्रपेति - पानीयशाला । सत्रम् अन्नदानशाला । सभा व्यवहारनिर्णयपरिषत् । एभिः सनाथाः युक्ता: या: वोथयः गृहपङ्क्तयः तासां निवेशनं रचना यत्र तत् पण्यपुटभेदनं विक्रेयद्रव्यपरिपूर्णं पुटभेदनं नगरम् । पुनः कथंभूतम् । विदूरितेति - विदूरितं निवारितं कितवा: द्यूतक्रीडारताः । विटा : षिङ्गाः । विदूषका: चाटुबटुका: । पीठमर्दाः नर्मभाषणकारिणः । एतेषाम् अवस्थानं यत्र तत् तथाभूतं पेण्ठास्थानं विनिर्माय विरव्य नानादिग्देशगमनकारिणां वणिजां वैश्यानां प्रशान्तशुल्क भाटकभागहारव्यवहारमचीकरत् पुरोहितः श्रीभूतिरिति संबन्धोऽत्र ज्ञेयः । [ अस्मिन्प्रस्तावे भद्रमित्रो नाम वणिक् श्रीभूतेर्हस्ते तत्पत्नीसमक्षं सप्तरत्नानि दत्वा सुवर्णद्वीपम् अगच्छत् ] अत्रान्तरे अस्मिन् प्रसंगे भद्रमित्रः सुवर्णद्वीपम् अनुससारेति संबन्धः । स कस्य सूनुरिति विवृणोति कविः - पद्मिनीखेटेति – पद्मिनीखेटपट्टने विनिविष्टः संनिवेशविशिष्टो य आवासः मन्दिरम् आलयः तस्मिन् तन्त्रस्य तदधीनस्य तत्र निवसत इत्यर्थः । सुमित्रस्य वणिक्पतेः सूनुः भद्रमित्रः । कथंभूतस्य सुमित्रस्य । सुदत्तेति - सुदत्ता कलत्रं सुदत्ता भार्या तस्याः चरित्रेण सदाचारेण पवित्रितं गोत्रं यस्य, तस्य वणिक्पते: ( सुमित्रस्य ) सूनुः । कथंभूतः । निजेति — निजा ये सनाभयः अन्वयजाः जनाः त एव अम्भोजानि कमलानि तेषां विकासने भानुरिव सूनुः । कथंभूतः । समानेति - समानं धनं चारित्रं येषां तैः वणिक्पुत्रः वैश्यसुतैः सत्रं सह वहित्रयात्रायां नौकागमने यियासुः यातुमिच्छुः यियासुः जिगमिषुः । इति विचार्य सुवर्णद्वीपमनुससार । किं विचार्य । पादेति - यत् उद्यमात् धनं लभ्यते तस्य चत्वारो विभागाः कर्तव्याः । तत्र मायात् जाताद्धनलाभात् पादं चतुर्थाशं निधि कुर्यात् मूलधनत्वेन रक्षेत् पादं वित्ताय कल्पयेत् चतुर्थांशं वित्ताय उद्यमे भाण्डमिति योजयेत् । चतुर्थांशं धर्मे च उपभोगे च योजयेत् अवशिष्टं पादं भर्तव्यपोषणे कुटुम्बभरणार्थे तद्विनियोगं कुर्यात् ॥ ३७३ ॥ इति श्लोकार्थम् अवधार्य, अतिचिरम् उपनिषिन्यासयोग्यम् आवासं विचार्य च दीर्घकालं रत्नादिनिधिस्थापनयोग्यम् आवासः स्थानं किं स्यात् कुत्र स्यात् इति विमृश्य, उदिताचारसेव्यः उदितः विज्ञः कथितः आचारः व्यवहारः सेव्यो यस्य । अवधारितेतिकर्तव्यः निश्चितकार्यपद्धतिः सन् स भद्रमित्रः | अखिलेति – अखिलाः सकलाः ते च ते जनाश्च तेषां श्लाघ्यः प्रशस्यः यो विश्वासः विस्रम्भः तस्य प्रसूतिः उत्पत्तिः यस्मात् । तथाभूतस्य श्रीभूतेः हस्ते तत्पस्नीसमक्षम् अनर्घकक्षम् अनर्घाः उत्तमाः कक्षाः पार्श्वभागा यस्य तत्, अनुगताप्तकम्, आप्तेभ्यो अनुगतं हितकारिभ्यः पूर्वजेभ्यः अनुयातं रत्नसप्तकं निधाय स्थापयित्वा । विधाय व जलयात्रासमर्थं जलयात्रासंपादकम् अर्थं धनम् । एकवर्णप्रजाप्रलापम् एकवर्णा एव प्रजा वर्तते इति प्रलापः किंवदन्ती यत्र तथाभूतं सुवर्णद्वीपम् अनुससार । [ पृष्ठ १६९ - १७० ] पुनरिति - पुनः अगण्यपण्यविनिमयेन असंख्यक्रयविक्रयवस्तूनां प्रतिदानेन तत्रत्यं सुवर्णद्वीपसंबन्धि अचिन्त्यम् असंकल्प्यम् आत्माभिमतवस्तुस्कन्धं स्वष्टपदार्थसमूहम् आदाय गृहीत्वा, प्रत्यावर्त्तमानस्य स्वदेशं प्रतिनिवर्तमानस्य व्याघुटितस्य अदूरसागरावसानस्य अदूरं समीपं सागरस्य समुद्रस्य ५४
SR No.022417
Book TitleUpasakadhyayan
Original Sutra AuthorSomdevsuri
AuthorKailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year2013
Total Pages664
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy