SearchBrowseAboutContactDonate
Page Preview
Page 546
Loading...
Download File
Download File
Page Text
________________ ४२४ पं० जिनदासविरचिता [पृ० १६७ तत् स्तेयं स्यात् । तद्वस्तु स्वयं गृहीतम् अथवा अन्यजनाश्रयं क्रियते तत्स्तेयं स्यात् । तद्वस्तु स्वयं न गलीयात् अन्यजने च न दद्यात् । तत्सवं राशि विज्ञेयम्, स्वान्यजनाश्रये रायि प्रवृत्तिर्जायते तत्सर्वं स्तेयं विज्ञेयम् । स्वस्य रायि धने पराश्रिते रायि धने वा कथं स्तेयं भवति । संक्लेशाभिनिवेशेन प्रवर्तनात् ॥३६६॥ रिक्थमितिनिधिनिधानोत्थं रिक्थं नदीगृहाविवराकरादिस्थितं रिक्थं धनं राज्ञः विना अन्यस्य पुरुषस्य न युज्यते । राजा एव तद्धनस्य स्वामी । अत उक्तम् इह अस्वामिकस्य स्वस्य धनस्य मेदिनीपतिः राजा दायादः साधारणः स्वामी। निधिः यो व्ययीकृतः क्षयं न याति स निधिः । यद व्ययीकृतं सन् क्षयं याति तन्निधानम् ॥३६७॥ [पृष्ठ १६७] आत्मार्जितमिति-स्वेन अजितं उद्यमादिना लब्धमपि द्वापराय संशयाय स्यात् इदं मम धनमस्ति न वेति यदा संशय उत्पद्यत तदा तद्ग्रहणे दाने वा अन्यथा भवेत् स्तेयं स्यात् । अतः व्रती निजान्वयं विमुच्य अन्यस्य धनं परिहरेत् ॥३६८॥ मन्दिरे इति-मन्दिरे गृहे पदिरे मार्गे (?) नीरे, कान्तारे वने, घरणीधरे पर्वते तत् अन्यदीयम् अन्येषाम् इदम् अन्यसंबन्धि स्वापतेयं द्रव्यं प्रताश्रयः अचौर्यव्रतं बिभ्रद्धिः न आदेयं न ग्राह्यम् ॥३६९।। पौतवेति-पौतवन्यूनाधिक्ये पौतवं परिमाणं तत्र न्यूनता न्यूनेन परिमाणेन अन्यस्मै ददाति, अधिकेन आत्मने गृह्णाति । स्तेनकर्म चौर्यकर्मप्रयोगः चोरयतः स्वयम् अन्येन वा त्वं चोरयेति चोरणक्रियायां. प्रेरणम्, ततो ग्रहः चौरेण चौयं कृत्वा आनीतस्य धनादिकवस्तुनो ग्रहणम् । विग्रहे यत्र द्वयो राज्ञोविरोधोऽस्ति तत्र अल्पमूल्येन महार्धाणि द्रव्याणि प्राप्यन्ते इति मत्वा तत्र गत्वा तथा ग्रहणं विग्रह अर्थस्य संग्रहः उच्यते, एते दोषा अतीचारा अस्तेयस्य निवर्तकाः अचौर्यव्रतस्य निवर्तका न्यूनत्वकारका अतीचारा भवन्ति ॥३७०॥ रत्नेति-येषु प्रतिकेषु अस्तेयं व्रतं निर्मलं निरतीचारं वर्तते । तेषाम् अचिन्तिताः मनसा असंकल्पिताः रत्नाम्बरविभूतयः मणिजडितवस्त्रवैभवानि भवन्ति । तेषां रत्नानि भवन्ति, रत्नानि अङ्गानि अवयवा येषां तानि गृहादीनि भवन्ति तथा च रत्नस्त्री स्त्रीरत्नं विद्याधरक्षेत्रे समत्पन्नम् उत्तमकूले जातं तेषां भवति ॥३७१॥ परप्रमोषेति-परेषां प्रमोषः परप्रमोषः परस्य प्रमोषे चौर्ये जाते सति मनस्तोषेण कृष्णधियां मलिनमतीनाम्, तृष्णाकृष्णधियां तृष्णया कृष्णा धीः येषां तेषां नृणाम् अत्रैव अस्मिन्नेव लोके दोषसंभूतिः राजपञ्चजनादिभ्यः दण्डादिप्राप्तिः। परत्रैव च परलोके च दुर्गतिः नरकतिर्यगत्योः कुलहीने च जन्म जायते ॥३७२॥ [पृष्ठ १६७-१६८ ] श्रूयतामत्र स्तेयफलस्योपाख्यानम्-प्रयागदेशेषु निवासविलासवारलाप्रला. पवाचालितविलासिनीनू पुरे इति-निवासा हाणि तत्र विलासवारलाः क्रीडां कुर्वन्त्यो याः वारलाः हंस्यः तासां प्रलापाः मधुरस्वराः तैः सह वाचालितानि मुखरितानि विलासिनीनां नूपुराणि यत्र तथाभूते सिंहपुरे सिंहसेनो नाम नृपतिः आसीत् । कथंभूतः । समस्तेति- समस्ताश्च ते समुद्राश्च समस्तसमुद्राः तैः मुद्रिता चिद्विता सा चासौ मेदिनी च पृथ्वी तस्याः प्रसाधने वशीकरणे सेना यस्य सः, पराक्रमेण सिंह इव सिंहसेनो नाम नपतिः । तस्य रामदत्ता नामाग्रमहिषी। कथंभूता सा। निखिलेति-निखिलं च तद्भवनं जगत् तस्य जनः स्तवनोचितं वृत्तं सदाचारो यस्याः सा । सुतो चानयोः सिंहचन्द्रपूर्णचन्द्रो नाम । कथंभूतौ तौ। 'आश्चर्येति-आश्चर्योत्पादकलावण्येन परितोषिताः आह्लादिताः अनिमिषाणां देवानाम् इन्द्रा याभ्यां तो। अस्य नृपस्य श्रीभूतिः पुरोहितः । कथंभूतः । निःशेषेति-निःशेषाणि निखिलानि तानि शास्त्राणि तेषु विशारदा चतुरा मतिर्यस्य सः पुरोहितः सूनृताधिकधिषणतया सत्यघोषापरनामधेयः सत्यं प्रियं च यद्भाषणं तत्सनतं तेनाधिका चासो धिषणा बुद्धिस्तया सत्यघोषापरनामधेयः । धर्मपत्नी चास्य पतिहितैकचित्ता पतिहिते एक मख्यं चित्तं मनो यस्याः सा श्रीदत्ता नामाभूत् । स किल श्रीभूतिः विश्वासो विस्रम्भः रसः प्रेम ताभ्यां निर्विघ्नतया निरन्तरतया, परोपकारनिघ्नतया च परोपकारकरणवशतया च । वणिजां १. वैडूर्यपद्मरागादिमणयः रत्नानि, सुवर्णरजतादिकं रत्नाङ्गम्, उत्तमाः स्त्रियः रत्नस्त्रियः । उत्तमानि वस्त्राणि रत्नाम्बराणि भाष्यन्ते । २. ब-क-पुस्तकयोः आश्चर्यसौदर्योदार्येति पाठः ।
SR No.022417
Book TitleUpasakadhyayan
Original Sutra AuthorSomdevsuri
AuthorKailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year2013
Total Pages664
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy