SearchBrowseAboutContactDonate
Page Preview
Page 496
Loading...
Download File
Download File
Page Text
________________ ३७४ पं० जिनदासविरचिता [पृ०७०वसुन्धरा भूमयो यत्र पुनः कथंभूतम् । अनवधीति-अनवधि अमर्यादरूपा निर्माणं रचना येषां तानि माणिक्यानि तैः सूत्रिता खचिता या त्रिमेखला कटनीत्रयं तस्त्र अलंकाररूपा ये कण्ठीरवाः सिंहाः तैर्युक्तं यत्पीठमासनम् तत्र प्रतिष्ठा उपवेशनं यस्य स चासो परमेष्ठी च तद्वत्प्रतिमा आकृतिर्यस्य तत् पुनः कथंभूतम् । अशेषत इति-अशेषतोऽभितः समासीना या द्वादशसभाः तासांम अन्तराले मध्ये विलसन्ति शोभमाना निलिम्पानां देवानाम् आनका वाद्यानि, अशोकानोकहः अशोकवृक्षः प्रमुखानि मुख्यानि प्रातिहार्याणि सुरपुष्पवृष्टिदिव्यध्वनिचामरादीनि अष्टो तैः शोभितम् । पुनः कथंभूतम् । ईषदिति-ईषत् स्तोकं उन्मिषन्ति. स्फुटन्ति विकसन्ति यानि अनिमिषाणां देवानाम् उद्यानस्य नन्दनवनस्य प्रसूनानि पुष्पाणि तेषाम् उपहारः अर्चनम् तस्य हरिचन्दनस्य तत्रामककल्पवृक्षस्य आमोदोऽतिनिहारी गन्धः तेन सनाथा युक्ता या गन्धकुटी तदाख्या सभा तया समेतं युक्तम् । पुनः कथंभूतम् । अनेकेति-अनेके मानस्तम्भाः जिनेन्द्रदर्शनार्थ समागतभव्यजनमानहरणे समर्था ये रत्नस्तम्भास्ते मानस्तम्भा उच्यन्ते, तडागाः सरांसि,तोरणानि वन्दनमालाः, स्तूपाः ध्वजा, धूपनिपा धूपघटाः निधानानि नवनिधयस्तैनिर्भरं भरितम् । पुनः कथंभूतम् । उरगेतिउरगा नागदेवाः नरा मनुष्याः, अनिमिषा देवाः तेपाम् नायकाः स्वामिनः तेषां अनीकानि सैन्यानि तैः आनीतः विहितः स चासौ महामहोत्सवस्तस्य प्रसरो यत्र तत् । अमित इति-भवसेनः प्रभतिः आदी येषां ते भवसेनप्रभृतयः ते च ते आर्हताभासाश्च जैनाभासाश्च तैः प्रभाविता यात्रा प्रभुदर्शनार्थ गमनं तस्य अधिकरणम् आधारः तथाभतं समवसरणं विस्तार्य स विद्याधरः समस्तमपि नगरं क्षोभयामास । [पृष्ठ ७०]-सापि जिनसमयोपदेशरसैरावती जिनशास्त्रोपदेशजला ऐरावतनदीव रेवतोराज्ञो इमं वत्तान्तोपक्रमं जनोदन्तस्य उद्भूति कुतोऽपि जैनाभासजनमतेत्विा , "सिद्धान्ते खलु चतुर्विशतिरेव तीर्थकराः ते चाधना सिद्धवध्वाः सिद्धकामिन्याः सोधस्य प्रासादस्य मध्ये विहारः क्रीडा येषां ते तस्मात् एष अपर: एव कोऽपि मायाचारी तस्य जिनेन्द्रस्य रूपधारी। इति चावधार्य विनिश्चित्य अविपर्यस्तमतिः यथार्थमार्गे प्रवर्तितबुद्धि : परि सर्वत: आत्मधामन्येव स्वगृहे एव आत्मरूपे गहे वा प्रवर्तितम् आचरितम् धर्मकर्मणां चक्रं वन्दं यत्र तस्मिन् सुखेन आसांचक्रे उवास । (पुनः स क्षुल्लकः मुनिवेषं धृत्वा रेवती परीक्ष्यामूढतावती निश्चित्य तामभ्यनन्दयत्) पुनः स बहुकूटकपटमतिः बहुकूटा बहुस्थिरा कपटे मतिर्यस्य स देशयतिस्ताभि: विविधस्वभावाभिः आकृतिभिः ब्रह्माहरिहरजिनाकृतिभिः तदास्वनितं तस्या रेवत्या आस्वनितं मनः अक्षभितं निश्चलम अवगत्य ज्ञात्वा उपात्तो गृहीतः मासोपवासिनो मुनेर्वेषो येन स क्षुल्लकः, क्रियेति-लोकानाम् आचरणं दृष्ट्वा अनुमातुं योग्यः सकलेन्द्रियप्रवत्तिर्येन तथाभूतः क्षुल्लकः गोचराय आहारार्थ तदालयं रेवत्या गहं प्रविष्टः तया स्वयमेव यथाविधि प्रतिग्रहादिनवविधीन् कृत्वा अनतिक्रम्य प्रतिपन्नचेष्टः कृतादरक्रियः तथापि विद्यावलात कथंभूतात् । अनलनाशः अग्निपाचनशक्तिस्तम्भनम्, वमनादिप्रकारः ताभ्यां प्रबलात् कृतेति-क्रतम अनेक नानाविधं मानसस्य उद्वेजनकारक पीडाकरं वयात्यम् औद्धत्यं येन स रेवत्याः क्वचिद् कस्मिन्नपि कार्ये मनोमौर्यम अवीक्षमाणः, रेवतीमेवमवदत् । 'अम्ब मातः, सर्वाम्बरचरेति-सर्वे च ते अम्बरचरा विद्याधराः तेषां चित्तानाम् अलंकारभूतं भूषणभूतं यत्सम्यक्त्वरत्नं तस्य आकरभूमे हे रेवति मातः, दक्षिणमथु रायां प्रसिद्धाश्रमपदः सर्वगुणरत्ननिर्माणकारणविदूरपर्वतरत्नभूमिः, श्रीमुनिगुप्तमुनिः, मर्पितरचनैः वचनैः प ता रचना येषां तथाभतः वचनैः पनः कथंभतः। परिमषितेति-परिमपितानि विनाशितानि अशेषाणि कल्मषाणि पापानि यस्तैः सवनैरिव जिनाभिषेकरिव, पुनः कथंभूतः ? अखिलेति-अखिलाश्च ते कल्पाः सकलभूषणानि तेषां परम्परा समूहस्तस्याः विरोचनभूतैः किरणरिव भवती पूज्यां रेवतीम् अभिनन्दयति धर्मवद्धयाशिषा सत्करोतीति भावः । रेवती कथंभूता, भक्तिरसेति-भक्तिरसवशेन उल्लसद् विकसत् च तल्लपनं मखं तस्य रागः कान्तिस्तेनाभिरामं यथा स्यात्तथा ससंभ्रमं सादरं च सप्तप्रचारोपसदैः सप्त च ते प्रचाराः सप्तप्रचाराः सप्तगमनानि सप्तवरणन्यासाः तानि उपसोदन्ति इति सप्तप्रचारोपसदानि तैः पदैः पदनिक्षेपः तां दिशमाश्रित्य श्रीमुनिगुप्तमुन्यधिष्ठितदिशमवलम्ब्य श्रुतविधानेन आगमोक्तविधिना विहितप्रणामा कृतवन्दना प्रमोदमानाः आह्लादं प्राप्नुवन्तः मनःपरिणामाश्चेतोवृत्तयो यस्याः
SR No.022417
Book TitleUpasakadhyayan
Original Sutra AuthorSomdevsuri
AuthorKailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year2013
Total Pages664
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy