SearchBrowseAboutContactDonate
Page Preview
Page 495
Loading...
Download File
Download File
Page Text
________________ -पृ०६१] उपासकाम्ययनटीका ३७३ अनिमिषेति-अनिमिषाः देवाः तेषां वनं नन्दनं तत्र विसपिणः प्रसरन्तः ते च ते कर्पूरोद्भिदानां कर्पूरवृक्षाणां गर्भतः सम्भवानां परागाः रजांसि तैः पाण्डुरितः शभ्रीकृतः पिण्डस्य देहस्य परिकरोऽवयवसमूहो यस्य तम् । पुनः कथंभूतं तम् । अचिरेति-अचिरा सूक्ष्मा या गोरोचना मोपित्तमणिः तस्या भङ्गः मर्दनं तस्माज्जातो यः रागः कान्तिः तद्वत पिङ्गलं पिशडं तत अम्बकम नेत्रं तदेव भालसरसो ललाटसरोवरस्य स्वर्णसरोजाकर हेमकमलवृन्दं यस्य तम् । पुनः कथंभूतं तम् । अबालेति-अबालानि महान्ति तानि कपालानि नकरोटयः तेषां दलकलापा: दलसमूहाः त एव आलवालवलयानि तत्र विलसन्तः मौलयः शिरांसि तेषां मलानां व्यतिकरो मिश्रणं यस्य तम् । पुनः कथंभूतं तम् । अति विकटेति-अतिविकटानाम् अतिविस्तीर्णानां जटानाम् अन्योन्यसंलग्नकेशानां जटाः समहास्तेषां कोटरेष गर्तास पर्यटन्ती प्रवहन्ती चासो गगनाटनतटिनी गगनाटना देवास्तेषां तटिनो गङ्गानदीत्यर्थः, तस्याः तरङ्गा वीचयः त एव करा हस्तास्तेषां केलि: क्रीडा तस्यां कुतूहलितः आश्चर्यविषयीभूतः बालप्रालेयाकरः बालचन्द्रो यस्य तम् । पुनः कथंभूतं तम् । आभरणेति-आभरणानि भूषणानि तेषां भङ्गी रचना तया संदर्भिता प्रथिता ये अनर्भका अशिशवः महान्त इत्यर्थः भुजङ्गाः सर्पाः तेषां भोगाः शरीराणि तेषु संगतानि खचितानि च तानि माणिक्यानि च पद्मरागरत्नानि तेषां विरोकानि तेजांसि तेषां निकरः समहः तस्य अतिशयस्तेन शाराणि शबलानि च तानि शार्दुलाजिनानि व्याघ्रचर्माणि तैविराजमानः शोभमानस्तम । पनः कथंभतं तम। उडमरेति-उडमरं श्रेष्ठं यत डमरुकं वाद्यविशेषः (महादेवस्य नर्तनसमये तेन वाद्यमानो वाद्य विशेषः) अजकावं नाम धनुः, कृपाणम् असिः, परशः परश्वधः, त्रिशुलखट्वाङ्गी अस्त्रविशेषो, एते आदी येषां तेषां संगः संयोगः तेन संकटा व्याप्ता: ये सकोटाः हस्ताः तेषां कोटिविस्तारः अग्रविस्तारः यस्य तम् । पुनः कथम्भूतं तम् । स्तम्बेरमेति-स्तम्बेरमो हस्ती तन्नामकोऽसुरः गजासुर इति तस्य वर्मणस्तनुत्रात् द्रवत् गलत् यद्रुधिरं रक्तं तेन दुर्दिनीकृतं वृष्टिप्लुतं नर्तावनीप्रतानं नृत्यभूमिपरिसरो यत्र तम् । अनलोद्भव-निकुम्भ कुम्भोदर-हेरम्ब-भिङ्गिरिटयादयो ये पारिषदः परिषदि साधवः पारिषद्याः सभासदः प्रमथादयः तेषां परिषत् सभा तया परिकल्प्यमानम् बलिविधानं उपहारविधिः यस्य तम् । पुनः कथंभूतम्-अहिबुध्नेति-अहिर्बुध्नस्य शिवस्य अवसरो अवतरणं तस्य निधानं स्थानम् आकारम् अनुकृत्य स विद्याधरः समस्तमपि नगरं क्षोभयामास । [पृष्ठ ६९] सापि स्याद्वादसरस्वती एव सुरभिर्धेनुः तस्याः संभावने आदरकरणे बल्लवीव गोपीव वरुणमहोशमहादेवी वरुणनगालस्य कृताभिषेका राज्ञी इमां जनश्रुति लोकोक्ति कुतश्चित् पश्चिमप्रतोलीसतात पश्चिमरथ्याया निर्गतात विपश्चितः विषः निश्चित्य निर्णीय 'निशम्यन्ते श्रयन्ते खल प्रवचन प्रत्यवायवार्ताभद्रा तपोविध्नस्य वार्तया अभद्रा अकल्याणयुक्ताः रुद्रा एकादश ते पुनः संप्रति स्वकीयाशुभकर्मणां विपाकात् उदयात् कालिन्दीसोदरोदरगर्तवतिनः कालिन्दी यमुना तस्याः सोदरो यमः तस्य उदरं जठरं तदेव गर्तम् अवटः बिलं तद्विवर्तिनः संजाताः। तस्मात् अयम् अपर एव कश्चित् अन्य एव नरेन्द्रविद्याविनोदाविदग्धहृदयमर्दी इन्द्रजालिकविद्याचातुर्येण अविदग्धा मुग्धास्तेषां हृदयव्यामोहक: कपर्दी महादेवः इति च प्रपद्य ज्ञात्वा निःसंदिग्धबोधा निरारेक ज्ञाना समासिष्ट सम्यक्तया स्वगृह एवोपविष्टाः। पुनः स्वापतेयेशदिशि स्वापतेयं धनं तस्य ईशः स्वामी कुबेरः तस्य दिशि दिशायाम उत्तरस्यां दिशायामित्यर्थः । विश्वम्भरातलादूर्ध्वं समवसरणं विश्वम्भराया भूमेस्तलादूर्ध्वम् उपरि अयोमुखासनदशसहस्रार्धावकृष्टम्, अयः लोहं मुखे अग्रे येषां ते अयोमुखा बाणाः तेषाम आसनानि धनंपि तेषां दशसहस्रं तस्य अर्ध पञ्चसहस्रं धनंषि तावतान्तरेण दूरनभसि स्थितम्, एकेन्द्रनीलशिलावर्तुलाधिष्ठानोत्कृष्टम् एका अखण्डा चासो इन्द्रनीलमणिशिला तया निर्मितम् यत् वर्तुलं वृत्तम् अधिष्ठानम् आधारः तेन उत्कृष्टम् उत्तमम्, पुनः कथंभूतम् । अखिलागतिगर्तोत्तरणमार्गरिव अखिलाश्च ता गतयः देवमानवतिर्यनारकाश्चतस्रो गतयस्ता एव गर्तास्ताम्य उत्तरणमार्गरिव उत्त्यानमार्गेरिव सोपानसर्गः आरोहणरचनाभिः चतुर्दिशम् चतुर्पु दिक्षु यथा स्यात्तथा उपाहितावतारं गृहीतावतारम्, पुनः कथंभूतम् । अनर्थेति-अनर्था विघ्नाः तन्नाशका द्रुघणा इव परशव इव ये मणयः रत्नानि तैः इलाध्याः प्रशस्या ये उन्नता नवप्राकारास्तेषामन्तः आचरिता निमिता स्पष्टा अष्टविधा अष्टप्रकारा
SR No.022417
Book TitleUpasakadhyayan
Original Sutra AuthorSomdevsuri
AuthorKailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year2013
Total Pages664
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy