SearchBrowseAboutContactDonate
Page Preview
Page 903
Loading...
Download File
Download File
Page Text
________________ સમયસાર : આત્મખ્યાતિ अन्याक्रियमाणान्याकारकैकद्रव्यात्मिका अकार्याकारणशक्तिः । परात्मनिमित्तकज्ञेयज्ञानाकारग्राहणग्रहणस्वभावरूपा परिणम्यपरणामकत्वशक्तिः । अन्यूनातिरिक्तस्वरूपनियतत्वरूपात्यागोपादानशून्यत्वशक्तिः । षट्स्थानपतितवृद्धिहानिपरिणतस्वरूपप्रतिष्ठत्वकारण - विशिष्टगुणात्मिका अगुरुलघुत्वशक्तिः । क्रमाक्रमवृत्तिवृत्तित्वलक्षणोत्पादव्ययध्रुवत्वशक्तिः। द्रव्यस्वभावभूतध्रौव्यव्ययोत्पादलिंगितसदृशविसदृशरूपैका Sस्तित्वमात्रमयी परिणामशक्तिः । कर्मबंधव्यपगमव्यंजितसहजस्पर्शादिशून्यात्मप्रदेशात्मिका अमूर्तत्वशक्तिः । सकलकर्मकृतज्ञातृत्वमात्रातिरिक्तपरिणामकरणोपरमात्मिका अकर्तृत्वशक्तिः । सकलकर्मकृतज्ञातृत्वमात्रातिरिक्तपरिणामानुभवोपरमात्मिका अभोक्तृत्वशक्तिः । सकलकर्मोपरमप्रवृत्तात्मप्रदेशनैष्यंद्यरूपा निष्क्रियत्वशक्तिः । आसंसारसंहरणविस्तरणलक्षितकिंचिदूनचरमशरीरपरिमाणावस्थित लोकाकाशसम्मितात्मावयवत्वलक्षणा नियतप्रदेशत्वशक्तिः । सर्वशरीरैकस्वरूपात्मिका स्वधर्मव्यापकत्वशक्तिः । स्वपरसमानासमानसमानासमानत्रिविधभावधारणात्मिका साधारणसाधारणसाधारणासाधारणधर्मत्वशक्तिः । विलक्षणानंतस्वभावभाविनैकभावलक्षणानंतधर्मत्वशक्तिः । तदतद्रूपमयत्वलक्षणा विरुद्धधर्मत्वशक्तिः । तद्रूपभवनरूपा तत्त्वशक्तिः । अतद्रूपाऽभवनरूपा अतत्त्वशक्तिः । अनेकपर्यायव्यापकैकद्रव्यमयत्वरूपा एकत्वशक्तिः । एकद्रव्यव्याप्यानेकपर्यायमयत्वरूपा अनेकत्वशक्तिः । भूतावस्थत्वरूपा भावशक्तिः । शून्यावस्थत्वरूपाऽभावशक्तिः । भवत्पर्यायव्ययरूपा भावाभावशक्तिः । अभवत्पर्यायोदयरूपाऽभावभावशक्तिः । भवत्पर्यायभवनरूपा भावभावशक्तिः । अभवत्पर्यायाभवनरूपाऽभावाभावशक्तिः । कारकानुगतक्रियाभिनिष्क्रांतभवनमात्रमयी भावशक्तिः । कारकानुगतभवत्तारूपभावगतक्रियामयी क्रियाशक्तिः । प्राप्यमाणसिद्धरूपभावमयी कर्मशक्तिः । भवत्तारूपसिद्धरूपभावभावकत्वमयी कर्तृशक्तिः । भवद्भावभवनसाधकतमत्वमयी करणशक्तिः । स्वयं दीयमानभावोपेयत्वमयी संप्रदानशक्तिः । उत्पादव्ययालिंगितभावापायनिरपायध्रुवत्वमयी अपादानशक्तिः । ८४८
SR No.022416
Book TitleSamaysara Part 02
Original Sutra AuthorN/A
AuthorBhagwandas Mansukhbhai Mehta
PublisherShrimad Rajchandra Ashram
Publication Year
Total Pages952
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy