SearchBrowseAboutContactDonate
Page Preview
Page 7
Loading...
Download File
Download File
Page Text
________________ ३८० षड्दर्शन समुश्चय भाग - २, श्लोक - ४५-४६, जैनदर्शन व्याख्या-तत्र-जैनमते जयन्ति रागादीनिति जिनाः-सामान्यकेवलिनः तेषामिन्द्रस्तादृशासदृशचतुस्त्रिंशदतिशयसनाथपरमैश्वर्यसमन्वितः स्वामी जिनेन्द्रो देवता-देवः कृत्स्नकर्मक्षयं कृत्वा परमं पदं संप्राप्त इति संबन्धः । कीदृशः स इत्याह'रागद्वेषविवर्जितः' मायालोभौ रागः, क्रोधमानौ - द्वेषः-रागद्वेषाभ्यां विशेषेण पुनः पुनर्भावेन वर्जितो-रहितो रागद्वेषविवर्जितो वीतराग इत्यर्थः । रागद्वेषौ हि दुर्जयो दुरन्तभवसंपातहेतुतया च मुक्तिप्रतिरोधको समये प्रसिद्धौ । यदाह-"-को दुःखं पाविज्झा कस्स य सुक्खेहि विम्हओ हुज्जा । को य न लभिज्जा मुक्खं रागद्दोसा जइ न हुज्जा ।।१।।” इति ।। ततस्तयोविच्छेद उक्तः । तथा 'हतमोहमहामल्लः' । मोहनीयकर्मोदयाद्धिंसाद्यात्मकशास्त्रेभ्योऽपि मुक्तिकांक्षणादिव्यामोहो मोहः, स एव सकलजगदुर्जयत्वेन महामल्ल इव महामल्लः, हतो मोहमहामल्लो येन स तथा । एतेन विशेषणद्वयेन देवस्यापायापगमातिशयो व्यञ्जितो द्रष्टव्यः, तथा रागद्वेषमहामोहरहितोऽर्हन्नेव देव इति ज्ञापितं च । यदुक्तम्-“रागोऽङ्गनासङ्गमतोऽनुमेयो द्वेषो द्विषद्दारणहेतिगम्यः । मोहः कुवृत्तागमदोषसाध्यो नो यस्य देवः स स चैवमर्हन् ।।१।।” इति ।। तथा केवलेअन्यज्ञानानपेक्षत्वेनासहाये संपूर्णे वा ज्ञानदर्शने यस्य स तथा, केवलज्ञानकेवलदर्शनात्मको हि भगवान्, करतलकलितामलकफलवद्रव्यपर्यायात्मकं निखिलमनवरतं जगत्स्वरूपं जानाति पश्यति चेति । केवलज्ञानदर्शन इति पदं साभिप्रायम्, छद्मस्थस्य हि प्रथमं दर्शनमुत्पद्यते ततो ज्ञानं, केवलिनस्त्वादी ज्ञानं ततो दर्शनमिति । तत्र सामान्यविशेषात्मके सर्वस्मिन्प्रमेये वस्तुनि सामान्यस्पोपसर्जनीभावेन विशेषाणां च प्रधानभावेन यद्ग्राहकं तज्ज्ञानम्, विशेषाणामुपसर्जनीभावेन सामान्यस्य च प्राधान्येन यद्ग्राहकं तदर्शनम्, एतेन विशेषणेन ज्ञानातिशयः साक्षादुक्तोऽवगन्तव्यः । ટીકાનો ભાવાનુવાદ: જૈનમતમાં જિનેન્દ્ર અર્થાતુજિન એટલે સામાન્ય કેવલિ, તે સામાન્ય કેવલિઓના ઇન્દ્ર શ્રીજિનેન્દ્ર ભગવાન દેવતા છે. સામાન્ય કેવલિમાં જે જોવા નથી મળતું, તેવા ચોત્રીસ અતિશયોથી સનાથ અને પરમઐશ્વર્યથી યુક્ત શ્રીજિનેન્દ્ર ભગવાન છે. તે દેવ સઘળાયે કર્મોનો ક્ષય કરીને પરમપદને પામ્યા છે - આ રીતે છેલ્લે સંબંધ કરવો. તે શ્રી જિનેશ્વર ભગવાન કેવા પ્રકારના છે ? A कः दुःखं प्राप्नुयात् तस्य च सुखैः विस्मयो भवेत् । कश्च न लभेत् मोक्षं रागद्वैपौ यदि न भवेताम् ।।
SR No.022414
Book Titleshaddarshan Samucchay Satik Sanuwad part 02
Original Sutra AuthorN/A
AuthorSanyamkirtivijay
PublisherSanmarg Prakashan
Publication Year2005
Total Pages544
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy