________________
२८.
जैनतर्कभाषा। आधस्तत्रर्जुसूत्रः क्षणिकमिह जगत् शब्दनामा द्वितीयः
कालादेर्थमेदस्त्विह तु समभिरूढाभिधानस्तृतीयः । मेदः पर्यायभेदादिह भवति ततः शब्द मेदेऽर्थमेदः स्यादेवम्भूतनामा चरम इह मते नाक्रियार्थस्तु शब्दः ॥ ३७॥
एवं स्युस्सप्त एते उभयगणनया तेषु चाद्या नयास्स्यु
श्चत्वारोऽर्थप्रधानात्रय इह तु परे शब्दनाम्नाऽभिधेयाः । एवं द्वावर्पितानर्पितनयवचनौ पर्यवद्रव्यबोधौ
एवं द्वौ निश्चयानिश्चयनयवचनी लोकसिद्धार्थकोऽन्त्यः ॥ ३८ ॥
आधस्तत्वार्थबोधः सकलनयमतस्वार्थकोऽन्त्यो नयैका
र्थग्राही चैवमेवापरनयभजनाज्ञानतोऽर्थक्रियातः। ज्ञानन्त्वेकं प्रधानं कलयति प्रथमश्चान्त्य आह क्रियां तु
सम्यक्त्वं ज्ञानमेवं चरणमिति समं मोक्षमार्गस्तु जैनः ॥३९॥
पूर्वः पूर्वो नयस्स्यामनु बहुविषयोत्तरोऽल्पार्थ एषु
सप्तस्यैव विवेको गदितनयभिदाऽऽभासतायाश्च बोध्या । एकान्तावेशतस्ते परमिह गदिता दुर्नया गौतमीया
दीनां दृष्टान्तगत्या कतिपय इह ते दर्शिता भाविताश्च ॥ ४०॥
एवं पूर्णों द्वितीयो भवति नयपरिच्छेद नामात्र पूज्यै
व्यार्थश्चर्जुस्त्रोऽनुमत इह ततः पर्यवार्थस्त्रिधैव । नो भिन्नो नैगमोऽन्तर्भवति स तु परं संग्रहे सिद्धसेनोऽ. शुद्रव्येऽथवाऽयं व्यवहति निपुणे वक्ति चैवं विवेकः ।। ४१ ॥
निक्षेपाचार्थशब्दान्यतरविरचनास्ते चतुर्धा निरुक्ताः __तत्रायो नामनामा क्वचिदपि च निजार्थानपेक्षोऽभिषिक्तः। नामेन्द्रो गोपपुत्रोऽपरमपि च तथा डित्यनामभिलाप्यं यावद् द्रव्यं तथान्यद् द्विविधमिदमथापेक्षयार्थस्य भाव्यम् ॥ ४२ ॥