________________
१. प्रमाणपरिः । विपत्ति साधकबाधक प्रमाणाभावे संशयो वा स्याव , कोशेन विशिष्यार्थद्वये शक्ती व्युत्पादितायां सत्यां तु तत्र प्रकरणादिनाऽप्रतिपरयादीनि निरस्यार्थविशेषा. वगति भवति, तथा प्रकृतेऽपि सन्सु नामादिनिःक्षेपेषु प्रकरणादिवशनाप्रतिषयादीनि व्युदस्य नाममङ्गलस्योपयोगे मङ्गलपदेन नाममङ्गलस्यैवं स्थापनामङ्गला. धुपयोगे स्थापना मङ्गलादेः प्रतिपत्तिरिति तद्रूपयथास्थानविनियोगफलवरवेन फलवन्तो निःक्षेपा इत्याशयेन प्रकरणादिवशेनेत्याद्युक्तम् , उक्ताशयस्फोरणायाह ।
पृ. ३५ पं. ११ मङ्गलादीति-उक्तार्थे प्रावां सम्मतिमुपदर्शयति ।
पृ ३५ पं. १२ तदुक्तमिति-अप्रस्तुतार्थनिराकरणे प्रस्तुतार्थप्रकाशने च निःक्षेपस्य प्रकरणादयस्सहकारिणो भवन्तीति बोध्यम् , यद्यपि सत्सङ्ख्यादिकमप्यनुयोगाङ्गं तथापि विशेषणविशेष्यभावेन विशिष्टार्थगतौ तनिबन्धनं, निःक्षे. पास्तु अखण्डस्यैव विशेष्यस्वरूपविशेषस्यावगतौ निवन्धनं यतो न नामघटो नामविशिष्टो घटः किन्तु यस्यकस्यचिद् घट इति नाम क्रियते स वस्तुविशेषोऽखण्ड एवं नामधटः एवं स्थापनाघटादयोऽपीति शब्दार्थरचना चात्र कर्मधारयस्य समासलक्षणैव, अन्यत्र कर्मधारयस्य विशेष्यपदायें विशेषणपदार्थाभेदबोधकत्वं, प्रकृतस्य तु विशेषणविशेष्यापदाम्यां सम्भूय विशेष्यस्वरूपविशेषावबोधकत्वं तथा विशेषणवाचकपदं केवलान्वयितानवच्छेदकधर्मप्रतिनिमित्तकमेक, नातो ज्ञेयघट इत्यादेनिःक्षेपत्वं न वा ततः विशेष्यरूपविशेषस्याखण्डस्य प्रतीतिः ज्ञेयत्वविशिष्टघटादेरेव विशेषणविशेष्यभावेन ततः प्रतीतेः, अत एव मृद्घटसु. वर्णघटेत्यादेरपि न निःक्षेपत्वमित्यपि बोध्यम् । निःक्षेपान् विभजते ।।
पृ. ३५ पं. १४ ते च-नामनिक्षेप-स्थापनानिःक्षेप-द्रव्यनिःक्षेप-भावनिःक्षेपभेदेन निक्षेपास्सामान्यतश्चतुःप्रकारा इत्यर्थः । अथ नामनिःक्षेपनिरूपपणम् । नामनिःक्षेपं निरूपयति।
पृ. ३५ पं. १६ तत्रेति-नामनिःक्षेपादिचतुर्विधनयेग्वित्यर्थः, प्रकृतार्थेत्यादिपरिणतिरित्यन्तं लक्षणं, नामनिःक्षेप इति लक्ष्यम् इन्द्र-शब्दस्य प्रकृतोऽ. र्थस्स्वर्गाधिपत्यादिगुणविशिष्टः सहस्राक्षः शचीपतियों वासवः तनापेक्षत इति प्रकवार्थनिरपेक्षा, तत्सापेक्षत्वे नामेन्द्रो गोपालदारको, वासववत् तत्पयायशकादि