SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ स्याहादमञ्जरौ। २०५ तभूतक्रियाविष्टमर्थ वाच्यत्वेनाभ्युपगच्छन्नेवंभूतः यथेन्दनमनुभवन्निन्द्रः शकनक्रियापरिणतः शक्रः पूर्दारण प्रदत्तः पुरन्दर इत्युच्यते क्रियानाविष्टं वस्त शब्दो वाच्यतया प्रतिक्षिपस्तु तदाभासः यथा विशिष्टचेष्टाशून्यं घटाख्यं वस्तु नैव घटशब्दवाच्यं घटशब्द प्रतिनिमित्तभूतक्रियाशुन्यत्वात्पटवदित्यादिः एतेषु चत्वारः प्रथमेऽथ निरूपणप्रवणत्वादर्थ नयाः शेषास्त त्रयः शब्दवाच्यार्थ गोचरतया शब्द नयाः पूर्वःपूर्वो नयः प्रचुरगोचरः परः परस्तु परिमितविषयः सन्मानगोचरात्मंग्रहान्नैगमो भावाभावभूमिकत्वाद् भूमविषय: सदिशेषप्रकाशकाद् व्यवहारतः संग्रहः समस्तसत्समूहोपदर्श कत्त्वाबहुविषयः वर्तमानविषयाजुसूबाहावहारस्विकाल विषयावलम्बित्वादनल्पार्थ : कालादिभेदेन भिन्नार्थोपदर्शिनः शब्दाहजुसूत्रस्तविपरीतवेदकत्त्वान्महार्थः प्रतिपर्यायशब्दमर्थ भेदमभौमतः समभिरूढाच्छब्दस्तहिपर्ययानुयायित्वात्मभूत विषयः प्रतिक्रियं विभिन्नमर्थपतिजानानादेवंभूतात्ममभिरूढस्तदन्यथास्थापकत्त्वान्महागोचरः नयवाक्यमपि स्वविषये वर्तमान विधिपतिषेधाभ्यां सप्तमङ्गीमनुव्रजतीति विशेषार्थिनां नयानां नामान्वर्थ विशेषलक्षणाक्षेपपरिहारादिचर्चस्तु भाष्यमहोदधिगन्धहस्तिटोकान्यायावतारादिग्रन्येभ्यो निरीक्षणीयः प्रमाणं तु सम्यगर्थनिर्णयलक्षणं सर्वनयात्मकं स्थाच्छब्दलाञ्छितानां नयानामेव
SR No.022401
Book TitleSyadvad Manjari
Original Sutra AuthorN/A
AuthorDamodarlal Goswami
PublisherChaukhamba Sanskrit Granthmala
Publication Year1900
Total Pages236
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy