SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ स्याद्वादमञ्जरौ | १६५ विना च न कार्योत्पत्तिः न च भूतान्येव तथा परिण मन्ते विजातीयत्त्वात् काठिन्यादेरनुपलम्भात् अणव एव चेन्द्रियग्राह्यत्वरूपां स्थूलतां प्रतिपदान्ते तज्जात्यादि चोपलभ्यते तन्न भूतानां धर्मः फलं वा उपयोगः तथा भवांश्च यदाक्षिपति तदसा लक्षणं स चात्मा सुसंविदितः भूतानां तथाभावे बहिर्मुखं सागौरोऽहम् इत्यादि तु नान्तर्मुखं बाह्यकरणजन्यत्वात् अनभ्युपगतानुमानप्रमाणस्य चात्मनि निषेधोऽपि दुर्लभः । धर्मः फलं च भूतानामुपयोगो भवेदादि । प्रत्येकमुपलम्भः स्यादुत्पादो वा विलक्षणात् ॥ इति काव्यार्थः ॥ २० ॥ एवमुक्तयुक्तिभिरेकान्तवादप्रतिक्षेपमाख्याय सांप्रतमनादाविद्यावासनाप्रवासितसन्मतयः प्रत्यक्षीपलक्ष्यमाणमपि अनेकान्तवादं येऽवमन्यन्ते तेषामुन्मत्ततामाविर्भावयन्नाह | प्रतिक्षणोत्पादविनाशयोगिस्थिरैकमध्यक्षमपीक्षमाणः । जिन त्वदाज्ञामवमन्यते यः स वातकी नाथ पिशाचकी वा ॥ २१ ॥ प्रतिक्षणं प्रतिसमयम् उत्पादनोत्तराकारखीकाररूपेण विनाशेन च पूर्वाकारपरिहारलचणेन यु
SR No.022401
Book TitleSyadvad Manjari
Original Sutra AuthorN/A
AuthorDamodarlal Goswami
PublisherChaukhamba Sanskrit Granthmala
Publication Year1900
Total Pages236
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy