SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ स्याहादमञ्जरी। ११७ कं मानुषपशुपक्षिमगसरीसृपस्थावर निमित्तम् आधिदैविकं यक्षगक्षसग्रहाद्यावेशहेतुकम् अनेन दुःखवयेण रजःपरिणामभेदेन बुद्धिवर्तिनाचेतनाशक्तोः प्रतिकूलतयाऽभिसम्बन्धो ऽभिघातः तत्त्वानि च पञ्चविंशतिस्तद्यथा अव्य तामेक महदहंकारपञ्चतन्मात्रैकादशेन्द्रिपञ्चमहाभूतभेदात् वयोविंशतिविधं व्यक्त पुरुषश्चिद्रूप इति तथा चेश्वरकृष्णः । मूलप्रकृतिरविकृति महदाद्याः प्रकृतिविकृतयः सप्त। षोडशकस्तु विकारो न प्रकृति न विकृतिः पुरुषः ॥ प्रीत्यनौतिविषादात्मकानां लाघवीपष्टम्भगौरवधर्माणां परस्परोपकारिणां त्रयाणां गणानां सत्त्वरजस्तमसां साम्यावस्था प्रकृतिः प्रधानमव्यक्तमित्यनर्थान्तरं तच्चानादिमध्यान्तम् अनवयवं साधारणमशब्दमस्पर्शमरूपमरसमगन्धमव्ययं प्रधानाहुद्धिमहदि. त्यपरपर्यायोत्पद्यते योऽयमध्यवसायी गवादिषु प्रतिपत्तिरेवमेतत् नान्यथा गौरवायं नाश्वः स्थाणुरेष नायं पुरुष इत्येषा बुद्धिस्तस्यास्त्वष्टौ रूपाणि धर्मज्ञानवैराग्यैश्वर्यरूपाणि चत्वारि मात्विकानि अधर्मादौनि तु तत्प्रतिपक्षभूतानि चत्वारि तामसानि बुके रहंकारः स चाभिमानात्मकोऽहंशब्दे ऽहंस्पर्श ऽहं रुपे ऽहंगन्धे ऽहरसे ऽहंस्वामी अहमौखरो ऽसौ मया हतः ससत्वोऽमं हनिष्यामि इत्यादिपत्ययरूपस्तरमा त्पञ्चतन्मात्राणि शब्दतन्मात्रादौन्यविशेषरूपाणि स
SR No.022401
Book TitleSyadvad Manjari
Original Sutra AuthorN/A
AuthorDamodarlal Goswami
PublisherChaukhamba Sanskrit Granthmala
Publication Year1900
Total Pages236
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy