SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ १०६ स्थाहादमञ्जरी। तत्वात् तथाहि सामान्यविशेषावत्यन्तं भिन्नौ विरुद्धधर्माध्यासितत्वाद्यावेवं तावेवं यथा पाथ:पावको तथाचतौ तस्मात्तथा सामान्यं हि गोत्वादि सर्वगतं तविपरीताश्च शवलशावलेयादयो विशेषास्तत: कथमेषामैक्यं युक्तं न सामान्यात्पथग्विशेषस्योपलम्भ इति चेत् कथं तर्हि तस्योपलम्भ इति वाच्यं मामान्यव्यातस्येति चेन्न तर्हि सविशेषोपलम्भः सामान्यस्यापि तेन ग्रहणात् ततश्च तेन बोधेन विविक्तविशेषग्रहणाभावात् तहाचकं ध्वनि तत्साध्यं च व्यवहारं न प्र. वर्तयेत्पमाता न च तदस्ति विशेषाभिधान व्यवहारयोः प्रत्तिदर्शनात्तस्मादिश षमभिलषता तत्र च व्यवहारं प्रवर्तयता तद्ग्राहके बोधो विविक्तोऽभ्युपगन्तव्यः एवं सामान्यस्थाने विशेषशद्वं विशेषस्थाने च सामान्यशटुं प्रयञ्जानेन सामान्येऽपि तद्ग्राहक बोधो विविक्तोऽङ्गीकर्तव्यस्तस्मात्स्वखग्राहिणि जाने पृथक् प्रतिभासमानत्वात् हावपौतरेतरविशकलितो ततो न सामान्यविशेषात्मकत्वं वस्तुतो घटत इति खतन्वसामान्यविशेषवादः तदेतत्पक्षत्रयमपि न क्षमते क्षोदं प्रमाण बाधितत्वात् सामान्यविश षोभयात्मकस्यैव वस्तुनो निविगानमनुभूयमानत्वात् वस्तुनो हि लक्षणमथक्रियाकारित्वं तच्चानेकान्तवाद एवाविकलं कलयन्ति परीक्षकाः तथा हि यथा गौरित्यते खुरककुदसानालालविषाणाद्यवयवसंपन्नं वस्तु खरूपं सर्वव्यक्त्यनुयायि प्रतीयते तथा महिष्यादि
SR No.022401
Book TitleSyadvad Manjari
Original Sutra AuthorN/A
AuthorDamodarlal Goswami
PublisherChaukhamba Sanskrit Granthmala
Publication Year1900
Total Pages236
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy