________________
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
सर्वार्थसिद्धिः
इति । अन्येऽपि 'ग्राह्यधर्मस्तदंशेन व्याप्तो हेतुः' इति । सत्यं ; काल्पनिकहेतुसाध्यधर्मद्वारा अनुमानप्रवृत्तिः; पारम्पर्येण तु स्वलक्षणविश्रान्त्या भाक्तमनुमानप्रामाण्यमिति हि ' बौद्धानां रहस्यम् । * तत्वगत्या चतुर्विधानामपि तेषां धर्मधर्मिभावः क्षेप्यः ।
2
आनन्ददायिनी
--
विद्यमानत्वादित्यर्थः । ग्राह्यधर्म इत्यादि - ग्राह्यस्य इन्द्रियग्राह्यस्य पक्षस्य धर्मस्तदंशेन साध्येन व्याप्तो हेतुः इति न्यायकौमुदीकारादय आहुरित्यर्थः । नात्रार्थतथात्वलक्षणं प्रामाण्यमङ्गीक्रियते ; तस्य निर्वि कल्पकमात्रपर्यवसायित्वात् अपितु अविसंवादित्वलक्षणं ; तच्च धर्मधर्मिभावकल्पनयाऽप्युपपद्यते इति परिहरति सत्यमिति--अस्मिन् श्लोके न वैभाषिक एव पूर्वपक्षी; अपि तु चत्वारोऽपीत्याह - चतुर्विधानामिति । नन्वयं विकल्पो विषयसिद्ध्यसिद्धिपराहत इत्याह
64
[ जडद्रव्य
भावप्रकाशः
* बौद्धानां रहस्यमिति न्यायविन्दौ निर्विकल्पकं प्रस्तुत्य ‘तस्य विषयः स्वलक्षणं । तदेव परमार्थसत् । अन्यत्सामान्यलक्षणम् । सोऽनुमानस्य विषयः' इत्याद्युक्तेरिति भावः । एतच्च बुद्धिसरे (३३) सविकल्पकदृष्टान्तेन आचार्यैरेव सम्यगुपादयिष्यते ।
2 * तत्वगत्येत्यादि सौत्रान्तिकयोगाचारमाध्यामिकानां प्रत्यक्षार्थभङ्ग बाह्यार्थभङ्ग सर्वशून्यत्ववादैः वैभाषिकवैलक्षण्यसत्त्वेऽपि परमार्थसतोधर्मर्धर्मिणोर्द्वयोः कैरप्यनङ्गीकारादिति भावः ।