SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ X सौनाग, बैजि, सौभव, हर्यक्ष, चन्द्राचार्य, वसुरात प्रभृतीनां निबन्धाः आर्षप्रबन्ध संक्षेपणव्याकरणप्रमुखविपुलोपकारा व्यालुप्तरूपतया प्राचीननिबन्धानूदिता यद्येतैरभ्युपगम्येरन् सत्तया विषयेण गरिम्णा च ; तत्कथमपरत्रैवंविध एव विश्वासदाऽप्यवष्टम्भकमवगच्छद्भिरप्यविश्वासः क्रियते इति त एव विमृशन्तु ॥ एतत्प्रबन्धप्रवृत्तिः सत्स्वप्येतेषु प्राक्तनेषु प्रबन्धेषु न्यायविस्तरशास्त्रस्य विद्यास्थानेषु प्रसिद्धं परिगणनं प्रायस्सर्वेषां तत्र प्रथमपरिचयारम्भसंरम्भं प्रायः प्रधानार्थाविरोधिभूयः प्रमेयनिरूपणानि च प्रथमानानि अन्ततः तद्व्याख्यातृभिः स्वमनीषिकया श्रुतिशिरोविरोधेनैव प्रचार्यमाणतां च; विशिष्टाद्वैतसंप्रदायाचार्यैरपि प्राचीनैः स्वसिद्धान्तप्रमेयानां विप्रकीर्णतया तत्र तत्र निर्वाहेऽपि तन्निर्वाहस्यापर्याप्ततां प्रासङ्गिकमुख्या मुख्यनिरू पणीयभूयस्त्वं च परिचिन्तयताः श्रीमद्वेङ्कटनाथदेशिकमणिना स्वसिद्धान्तसिद्धांस्तत्तदर्थान् संग्रहेण प्रतिपादयितुं परसिद्धान्तसरणिषु प्रमाणादिबलाबलादिकं संक्षेपतरिशक्षयितुं च निर्दोषपुष्कलार्थस्रग्धरागुम्भितः तत्वमुक्ताकलापनामा न्यबन्धि निबन्ध: । अयमंशः 'आवापोद्वापतस्स्युः कति कति ' ' शिष्टा जीवेशतत्वप्रमितियुत' इति श्लोकाभ्यां ग्रन्थावतर स्वयमेवोक्तो गुरुणा ॥ एवमप्यतिसंक्षिप्तग्रन्थभावग्रहणधारणदौष्कर्यं परिचिन्तयन् सर्वार्थसिद्धिनानी वृत्तिमपि सानुग्रहं स्वयमेव व्यधादाचार्यः । तदेतदाह प्रबन्धारम्भे स्वयमेव ताराकल्पे स्फुरति सुधियां तत्वमुक्ताकलापे दूराद्वृत्त्या दुरधिगमतां पश्यतां सर्वसिद्ध्यै । नातिव्यासव्यतिकरवत नातिसंकोचखेदा वृत्तिस्सेयं विशदरुचिरा कल्प्यतेऽस्माभिरेव ॥ इति ॥ -
SR No.022392
Book TitleTattva Muktakalap
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narasimhachar
PublisherMysore Government Branch
Publication Year1933
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy