________________
न्यायालङ्कारालङ्कृता ।
ग्यतापेक्षया द्रष्टव्यम् । यावता हि "स्मरसि चैत्र ! कश्मीरेषु वत्स्यामस्तत्र द्राक्षा भोक्ष्यामहे " इत्यादिस्मरणे तत्पदोल्लेखो न दृश्यते, दृश्यते तु तेषु कश्मीरेषु इति ता द्राक्षा इति तच्छब्दोल्लेखयोग्यता । न चैवं प्रत्यभिज्ञानेऽपि तत्प्रसङ्गः तस्य स एवमित्याद्युल्लेखशेखरत्वात् । मात्रपदं च प्रत्यभिज्ञादिव्यवच्छित्त्यर्थम् । ____ अनुभवश्व दृढतमावस्थापनः स्वोपढौकिताऽऽत्मशक्तिविशेषरूपसंस्कारद्वारेण कालान्तरे स्मरणमर्जयितुं पर्याप्नोति इति स्मरणस्याऽनुभवजन्यत्वेनाऽनुभवपरिणामिकारणकतया तद्विषयाऽवभासनानैपुणी द्रष्टव्या । ननु अनुभवाविषयीकृतभावावभासननिपुणायाः स्मृतेविषयपरिच्छेदेऽपि कुतः स्वातन्त्र्यम् , कुतस्तरां च प्रामाण्यमिति चेद् ?, व्याप्तिज्ञानविषयीकृतार्थपरिच्छेदिनोऽनुमानस्याऽपि तथैव किं न स्यात् ? । नैयत्येनाऽऽभात एवाऽर्थोऽनुमानेन विषयीकृतो भवतीति चेत् , स्मृत्यापि तत्तयाऽऽभात एवाऽर्थो विषयीक्रियत इति समः समाधिः ।
एतेनाऽनुभवप्रमात्वपारतन्त्र्यप्रयुक्तमप्रामाण्यं प्रत्यक्षेपि, अनुमानस्याऽपि व्याप्तिज्ञानादिप्रमात्वपारतन्त्र्येणाऽप्रामाण्यप्रसङ्गात् । परापेक्षोत्पत्तिकस्यानुमानस्य विषयपरिच्छेदे स्वातन्त्र्ये तु स्मरणेऽपि किं तत् काकेन भक्षितं येन भवतोऽत्रैवाऽक्षमा । तस्मात् प्रत्यशादिवदविसंवादकत्वाऽविशेषात् स्मरणमप्रामाण्यकलङ्कविकलमेव, अतीततत्तांशे वर्तमानत्वविषयत्वनिबन्धनमप्यप्रामाण्यमशक्यमुद्घोषयितुं सर्वत्र विशेषणे विशेष्यकालभानाऽनियमात् । स्यादेतद्, अनुभूयमानस्य विषयस्याऽभावाद् निरालम्बनं स्मरणं कथं प्रमाणत्वेन युक्तं वक्तुमिति चेत् ? । मैवम् , यतोऽनुभूतार्थेन तस्य सालम्बनत्वं सम्भवत्येव । ननु नष्टीभूतो विषयः कथङ्कारं स्मरणमुत्पादयितुमलम् ?, एवं चार्थानुत्पत्ति तदप्रमाणमेवेति चेत् , तत् किं प्रामाण्यनिबन्धनमर्थजन्यत्वमाविश्चिकीर्षस्याऽऽयु