SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ अर्हम् | अथ तृतीयः परिच्छेदः । * उक्तं प्रत्यक्षमिदानीं परोक्षप्रमाणाऽवसर इति तल्लक्षयति-विपरीतं परोक्षम् ॥ १ ॥ साक्षात्करणत्वलक्षणप्रत्यक्षाद्विपरीतस्वरूपमसाक्षात्करणत्वं परोक्षप्रमाणस्य लक्षणम् । अत्राऽपि सामान्यलक्षणानुवादेन विशेषलक्षणविधानात् प्रमाणसामान्यलक्षणं यथार्थज्ञानमनूद्य असाक्षात्करणस्वरूपं विशेषलक्षणं प्रसिद्धस्य परोक्षस्य विधीयते प्रसिद्धस्याऽनुवादेन ह्यप्रसिद्धस्य विधानं लक्षणार्थ:, एवं च परोक्षं धर्मि असाक्षात्करणयथार्थज्ञानमिति साध्यो धर्मः परोक्षत्वादिति हेतुर्यन्नैवं तन्नैवं यथा गत्यक्षमिति व्यतिरेकित्वम् । परोक्षपदस्य च व्युत्पत्तिं प्रागेव प्रादशमेति ॥ १ ॥ अथ परोक्षप्रकारान् प्रकटयति स्मरण-प्रत्यभिज्ञान-तर्का -ऽनुमानाssगमैः पञ्चधा ॥ २॥ परोक्षमित्यनुवर्त्तते परोक्षप्रमाणं स्मरणादिप्रकारपञ्चकेन पञ्चधा ।। २ ।। तत्र स्मरणं स्मारयति — अनुभवमात्रजन्यं तत्तोल्लेखि स्मरणम् ॥३॥ अनुभवमात्रजन्यमिति कारणोपदेशः, तत्तोल्लेखीत्याकारनिवेदनं यथा तत्तीर्थकरविम्बम् । तत्तोल्लेखित्वं चास्य यो
SR No.022390
Book TitlePraman Paribhasha
Original Sutra AuthorN/A
AuthorDharmsuri, Nyayvijay
PublisherHarashchand Bhurabhai
Publication Year1914
Total Pages236
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy