SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ स्तबकः] स्याद्वादवाटिकाटीकासङ्कलितः रूपा न वस्तुसिद्धिसमर्थेति न ततो दृष्टहेतुसिद्धिः, यद् भाव्यं तद्भवत्येवेति तु सम्यग् निश्चयः, भाव्यता च नियतिरेवेत्युक्तनिश्चयान्नियतिः कारणं सिद्ध्यति; न च यत्कार्य प्रति यत्कारणस्य पूर्वमिष्टसाधनत्वेन निश्चयस्तत्कार्यार्थ तत्कारणे प्रवृत्तिः, कार्योत्पत्तेः पूर्व नियतेस्तु निश्चयो नास्तीति तत्र प्रवृत्तिदुर्घटेति वाच्यम् , अविद्ययैव प्रवृत्तः, यदृच्छयैव फललाभतोऽविद्यामूलिकाऽपि प्रवृत्तिः संवादिनीति ॥ ६३ ॥ १७५॥ नियतिजन्यत्वाभावे दोषमुपदर्शयतिअन्यथाऽनियतत्वेन, सर्वाभावः प्रसज्यते । अन्योऽन्यात्मकतापत्तेः, क्रियावैफल्यमेव च ॥६४॥१७६॥ अन्यथेति-यद्येवं नेष्यते, अर्थात् नियति विनैव भावानामुत्पत्तेरुपगमे इत्यर्थः, नियतिजन्यत्वाभावे च नियतत्वाभावात् अनियतत्वेन हेतुना “सर्वाभावः प्रसज्यते” इति हरिभद्रसूरिसम्मतः पाठः, तैः “सर्वाभावः प्रसज्यत" इत्यस्य "एते हि तत एव, तच्च तदन्यथा भवतीति प्राप्त, न चैतदेवमिति तदन्यवदभीष्टस्याप्यभाव इति सर्वाभावः” इत्येवं व्याख्यातम्, उपाध्यायसम्मतस्तु "सर्वभावः प्रसज्यते” इति पाठः, तेन तत्र “व्यक्त्यविशेषात्" इति हेतुरुपदर्शितः, तत्रोपाध्यायस्यायमभिप्रायः-यदि साजात्यवैजात्योभयानुवेधः कारणप्रयुक्तो नाश्रीयते तदा कार्यव्यक्तिं प्रति कारणव्यक्तिः कारणमित्येव प्राप्तं, तथा च व्यक्तिर्यथा घटव्यक्तिस्तथा पटव्यक्तिर्मठव्यक्तिरित्येवं सर्वेऽपि भावाः प्रत्येक व्यक्तिरिति व्यक्त्यविशेषात् सर्वेषां दण्डव्यक्तिकार्यत्वमिति सर्वभावो दण्डव्यक्तितः स्यादिति, हरिभद्रसूरेः पुनरयमभिप्रायः-एते हि तत एवेति योऽयं नियमः सोऽपि सर्वभावानामनियतत्वे सर्वान्तर्गतत्वादनियत इति तत एव भवतीत्यपि तदन्यथा भवतीति प्राप्तं, तेन एतदेवं नेति ततो यथाऽन्यदेवं न, अर्थात् ततो न भवति तथा विवक्षितमपि कार्य ततो न भवतीति सर्वाभावः प्रसज्यत इति । च पुनः, अन्योऽन्यात्मकतापत्तेः अनियतहेतुत्वेन घटस्य दण्डादिजन्यत्ववत् पटकारणतन्त्वादिजन्यत्वमपि भवेत् , एवं पटस्यापि तन्त्वादिजन्यत्वमपि भवेत् , एवं च पटस्य घटकारणजन्यत्वाद् घटात्मकत्वं, घटस्य पटकारणजन्यत्वात् पटात्मकत्वमित्येवं घट-पटादीनामन्योऽन्यस्वरूपत्वं स्यात्, एवं सर्वस्य सर्वकारणकत्वे घटपटाद्यविशेषापत्तेः, तथा च घटकार्यं पटोऽप्यविशिष्टत्वात् कुर्यादेवेति जलाद्यान
SR No.022389
Book TitleShastra Vartta Samucchay Part 02
Original Sutra AuthorN/A
AuthorSushilvijay
PublisherVijaylavanyasuri Gyanmandir
Publication Year1956
Total Pages262
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy