SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ शास्त्रवार्तासमुच्चयः। [द्वितीयः नियतेरेव कारणत्वात् , उपदर्शितनियतरूपस्य किञ्चिनिष्ठकारणतानिरूपितकार्यतानवच्छेदकत्वे प्रतिनियतदेशकत्वाभावलक्षणमाकस्मिकत्वं स्यात् , घटाद्यसाधारणनिरुक्तधर्मस्य पटादावप्यापत्तेः; न च विभिन्नसामग्रीजन्यतावच्छेदकानेकधर्मसङ्घटितमूर्तिकत्वलक्षणार्थसमाजसिद्धत्वात् तावद्धर्मकत्वलक्षणप्रतिनियतरूपवत्त्वं न कस्यचिजन्यतावच्छेदकमिति वाच्यम्, नियतिरूपैककारणजन्यतयैव तावद्धर्मकत्वावच्छिन्नस्योपपत्तावर्थसमाजाकल्पनात्, भिन्नसामग्रीजन्यत्वे विभिन्नत्वमेव स्यादेकवस्तुत्वं व्याहन्येत, तदुक्तम्"प्राप्तव्यो नियतिबलाश्रयेण योऽर्थः, सोऽवश्यं भवति नृणां शुभोऽशुभो वा ॥ भूतानां महति कृतेऽपि हि प्रयत्ने, नाभाव्यं भवति न भाविनोऽस्ति नाशः ॥ १॥", इति, ॥ ६२ ॥ १७४॥ नियतेरेव सामर्थ्यमुपदर्शयतिन चर्ते नियतिं लोके, मुद्गपक्तिरपीक्ष्यते । तत्स्वभावादिभावेऽपि, नासावनियता यतः ॥६३॥१७५॥ न चर्ते इति । न च इत्यस्य 'ईक्ष्यते' इत्यनेनान्वयः, ऋते नियति निरुक्तलक्षणां नियति विना, मुद्गपक्तिरपि मुद्गपाकोऽपि, न चेक्ष्यते न चानुभूयते, तत्स्वभावादिभावेऽपि यतो मुद्गपाकजनकस्वभावव्यापारादिसद्भावेऽपि, न नैव, असौ मुद्गपाकः, अनियता किन्तु स्वरूपनियतैव, स्वभावस्य कार्यकजात्यप्रयोजकत्वेन तदप्रयोज्यस्य मुद्गपाकनैयत्यस्य नियतिप्रयोज्यतैव, अतिशयरूपस्यापि स्वभावस्य पाकविशेष एव प्रयोजकत्वं पाकान्तरसाजात्यवैजात्योभयानुवेधस्तु नियति विना न संभवतीति । हेतुर्व्यक्तिमेवोत्पादयति, तत्र साजात्यवैजात्योभयानुवेधस्तु समवायादिलक्षणतत्त्वान्तरसम्बन्धादिति चेत् ? न,-'समवा याद्यात्मकातिरिक्तसम्बन्धस्य प्रमाणाभावतोऽभावेन तेन सन्बन्धेन साजात्यवैजात्योभयानुवेधासंभवात् , समवायादेरभ्युपगमेऽपि वा तत्साजात्यवैजात्ययोस्तत्रैव समवायो नान्यत्रेत्यत्र नियामकस्य गवेषणीयत्वात् , तत्समवायादेरेव प्रतिनियतदेश एव कस्यचित् सम्बन्धस्य बलात् सत्त्वे तस्यापि सम्बन्धान्तरस्य प्रतिनियतदेश एव सत्त्वे नियामकसम्बन्धान्तरान्वेषणेऽनवस्थापातात्; किञ्च यत्सत्त्वेऽवश्यं यत्कार्यस्योत्पत्तेः सम्यग् निश्चयो भवति तत् तस्य कारणं युक्तं, दण्डादिसत्त्वेऽवश्यं घटोत्पत्तिरिति न सम्यग् निश्चयः, तत्सत्त्वेऽपि कदाचिद् घटानुत्पत्तेः, किन्तु दण्डादिसत्त्वे प्रायो भविष्यति घट इति संभावनैव, संभावना तूत्कटकोटिकसंशय
SR No.022389
Book TitleShastra Vartta Samucchay Part 02
Original Sutra AuthorN/A
AuthorSushilvijay
PublisherVijaylavanyasuri Gyanmandir
Publication Year1956
Total Pages262
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy