SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ स्तबकः] स्याद्वादवाटिकाटीकासङ्कलितः प्रयोगः प्रसज्येत, न च 'नीलं तमः' इत्यत्र नीलस्य तमोविशेषणत्वमेव, तथा च नीलपदजन्यनीलत्वावच्छिन्नमुख्यविशेष्यताकशाब्दबोधो नात उपजायत इत्यनुक्तलिङ्गविशेषणपदानां विशेष्यलिङ्गताया औत्सर्गिकत्वात् नीलपदे क्लीबत्वम्, अनुत्तलिङ्गेति विशेषणपदविशेषणतयोपादानाद् 'वेदाः प्रमाणम्' 'प्रत्यक्षानुमानशब्दाः प्रमाणानि' 'पितरो देवता' 'मैथिली रामदाराः' इत्यादौ विशेषणपदानां विशेष्यलिङ्गत्वाभावेऽपि न क्षतिरिति वाच्यम् , आरोपितं नीलं रूपं तमः, नीलरूपान्तरं च न तम इत्येवं नीलं सामान्यम् , तमस्त्वारोपितं नीलरूपमेवेति विशेषः, सामान्य-विशेषयोर्मध्ये सामान्यस्य व्यभिचरितत्वेन तस्यैवेतरव्यावर्तकत्वेन विशेषो विशेषणम् , विशेषस्त्वव्यभिचरित एव तस्येतराव्यावर्तकत्वात् सामान्य न विशेषणम् , तथा चनीलस्य सामान्यतया विशेष्यत्वात् तमोविशेषणत्वाभावे न तल्लिङ्गकत्वमिति 'नीलस्तमः' इति प्रयोग आपद्येत, विशेषण-विशेष्यभावे कामचाराभिधानस्य परस्परव्यभिचारितदुभयविषयत्वादिति । नीलारोपविशिष्टस्तेजस्संसर्गाभावस्तम इति शिवादित्यमतमपि न युक्तम् , विशिष्टवैशिष्ट्यावगाहिबुद्धौ विशेषणतावच्छेदकप्रकारकनिश्चयस्याभावबुद्धौ प्रतियोगितावच्छेदकविशिष्टप्रतियोगिज्ञानस्य च कारणत्वेन निरुक्तस्वरूपतमसो ज्ञानस्य नीलारोपविशिष्टवैशिष्टयावगाहिबुद्धित्वेन नीलारोपात्मकविशेषणतावच्छेदकप्रकारकनिश्चयं विनाऽभावबुद्धित्वेन च प्रतियोगितावच्छेदकीभूततेजस्त्वविशिष्टतेजो. रूपप्रतियोगिज्ञानं विनाऽसम्भवप्रसङ्गात् , भवति च नीलारोपाद्यग्रहेऽपि तमोबुद्धिरतो नोक्तस्वरूपं तमः, निरुक्ततमःस्वरूपघटकतयैव नीलारोपस्य प्रविष्टत्वेन तादृशतमस्त्वावच्छिन्नधर्मिकनीलारोपस्यात्माश्रयाद्ययोगाच्च । तस्माजाङ्गुलीमिव स्याद्वादगिरं समाकण्यकान्तवादिनः सुखं ध्वान्तेऽभावत्वभ्रमलक्षणं विषमुद्वमन्तु, स्वीकुर्वन्तु चैकान्तान्न किञ्चिदुत्पद्यते न वा विनश्यति किन्तु सर्व वस्तूत्पादव्यय-ध्रौव्यात्मकत्रिलक्षणसत्त्वशालीति ॥ ७७ ॥ उपसंहरति - एवं चैतन्यवानात्मा, सिद्धः सततभावतः । . परलोक्यपि विज्ञेयो, युक्तिमार्गानुसारिभिः ॥ ७८ ॥ . एवमिति । एवम् उक्तेन प्रकारेण, उक्तयुक्त्येति यावत् । चैतन्यवान् ज्ञानवान् , ज्ञानोपादानमिति यावत् । आत्मा भूतव्यतिरिक्तः, सिद्धः प्रमाण
SR No.022388
Book TitleShastra Vartta Samucchay Part 01
Original Sutra AuthorN/A
AuthorSushilvijay
PublisherVijaylavanyasuri Gyanmandir
Publication Year1954
Total Pages300
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy