________________
१४६
शास्त्रवार्तासमुच्चयः ।
[ प्रथमः
व्यवहारे प्रतिबन्धकं किन्तु प्रकृष्टालोकात्मकतेजोज्ञानम्, तच्च तदानीं नास्ति, ततः प्रतिबन्धकाभावोऽपि विद्यते इति सम्भृतसामग्रीकत्वात् तमोव्यवहारो भवति, प्रकृष्टालोकसत्त्वे तु व्यवहर्तव्यतेजः प्रतियोगिकाभावरूपतमोज्ञान- तद्वयवहारेच्छयोः सत्त्वेऽपि प्रकृष्टालोकात्मकतेजोज्ञानरूपप्रतिबन्धकसत्त्वेन तदभावरूपकारणाभावात् सामय्यभावेन न तमोव्यवहारः" इत्यभिप्रायकं त्वत्यनादरणीयम्, प्रतिबन्धक-तदभावरूपकल्पनेन स्पष्टगौरवात्, व्यवहर्तव्यज्ञाने सति सत्यां च व्यवहारेच्छायां व्यवहारेऽधिकानपेक्षणाच्च ।
प्राभाकरास्तु - " तेजोज्ञानाभाव
www
एव तमः न चाभावे नीलरूपाभावाद् भ्रमात्मकज्ञानस्य चानभ्युपगमान्नीलं तम इति प्रतीतिर्न स्यादिति वाच्यम्, स्मृतनीलिना सममालोकज्ञानाभावस्यासंसर्गाग्रहरूपाया एव तस्या अभ्युपगमात्, अत एवालोकाभाववद् गर्भगृहं प्रविशतः प्रथममालोकाग्रहे ‘नीलं तमः’ इति धीः, तदुक्तम् - "अप्रतीतावेव प्रतीतिभ्रमो मन्दानाम्" इत्याहुः, तदप्यसत्आलोकज्ञानस्य मनो मात्रग्राह्यत्वेन तदभावस्यापि मनोमात्रग्राह्यतया 'तमः पश्यामि' इति प्रतीत्या चाक्षुषतया प्रमितस्य तमसस्तद्रूपत्वासम्भवात् न च तमो न चाक्षुषं निमीलितनयनस्यापि प्रमातुः प्रतीतिविषयत्वादिति वाच्यम्, तदानीमर्थान्तरस्यैव प्रतीतेः, निमीलितनयनस्य तमः प्रतीतौ च नयनोन्मीलनात् पूर्वं तस्य गेहे तमोऽस्ति न वेति संशयो न भवेत्, गर्भगृहे च तमःप्रत्ययो भ्रम एव, आलोकज्ञानाभावोपपत्तये तत्रावश्यं स्वीकरणीयादालोकज्ञानप्रतिबन्धकदोषान्निरुक्तभ्रमसंभवात् ।
"
आरोपितं नीलं रूपं तम इति कन्दलीकारमतमपि न युक्तम्, नीलीद्रव्योपरक्तेषु वस्त्र चर्मादिषु नीलरूपप्रत्ययो नीलीद्रव्योपरागादारोपात्मक एव न तु वास्तविक इति तत्रारोपितं नीलं रूपं समस्तीति तमोव्यवहारप्रसङ्गात् किञ्चाssरोपितनीलरूपस्यैव तमस्त्वे 'नीलं तमः' इत्यत्र नीलरूपस्यैव तादात्म्येन तमस्यन्वय इति नीलपदं नीलरूपार्थकमेव तत्र न तु नीलरूपवदर्थकम्, तमः - पदं च तमः शब्दवाच्यपरम्, तथा च 'नीलं तमः' इत्यनेन नीलरूपत्वावच्छिन्नविशेष्यतानिरूपिततमः पदवाच्यत्वावच्छिन्नप्रकार ताकशाब्दबोधो भवतीति वाच्यम्, एवं “गुणे शुक्लादयः पुंसि, गुणिलिङ्गास्तु तद्वति" [अम० को० १, ५,१७] इत्यनुशासनेन शुक्लादिपदजन्यशुक्लत्वाद्यवच्छिन्न मुख्य विशेष्यताकशाब्दबोधे पुर्लिंङ्गकशुक्लादिपदशक्तिज्ञानजन्योपस्थितेर्हेतुत्वेन 'नीलस्तमः' इति
"