________________
७९
स्तबकः] स्याद्वादवाटिकाटीकासङ्कलितः स्याविनाश-प्रादुर्भावौ, ततस्तस्यैकान्ततो हिमवद्विन्ध्ययोरिव भेदप्रसक्तेः; न च कारणाश्रितस्य कार्यद्रव्यस्योत्पत्तेर्नायं दोषः, तयोर्युतसिद्धितः कुण्डबदरवत् पृथगुपलब्धिप्रसक्तेः, अयुतसिद्धावपि कार्योत्पत्तौ कारणस्याप्युत्पत्तिप्रसक्तिः, अन्यथाऽयुतसिद्ध्यनुपपत्तेः; अथायुताश्रयसमवायित्वमयुतसिद्धिः, सा च कार्योत्पत्तौ कारणानुत्पत्तावपि भवत्येव, न-समवायासिद्धावयुतसिद्ध्यसिद्धेः; न चायुतसिद्धि त एव समवायसिद्धिः, इतरेतराश्रयदोषप्रसक्तेः; न चाध्यक्षतः समवायसिद्धेर्नायं दोषः, तन्त्वात्मकपटप्रतिभासमन्तरेणाध्यक्षप्रतिपत्तावपरसमवायाप्रतीतेः, इह तन्तुषु पट इत्यत्रापि प्रत्यये 'इह तन्तुषु' इति प्रतिपत्तिस्तन्त्वालम्बना, 'पटः' इति प्रतिपत्तिः पटालम्बना संवेद्यत इति नापरः समवायप्रतिभासः, न च इह तन्तुषु पट इति लौकिकी प्रतिपत्तिः, किन्तु पटे तन्तव इति, न चान्यथाभूतप्रतिपत्त्याऽन्यथाभूतार्थव्यवस्था; न चानुमानादपि समवायप्रसिद्धिः, प्रत्यक्षाभावे तत्पूर्वकस्य तस्य तत्राप्रवृत्तेः, अनुमानपूर्वकस्य तु तस्यानवस्थादिदोषाघ्रातत्वात् तत्राप्रवृत्तिरित्यनेकशः प्रतिपादितं न पुनरुच्यत इति व्यवस्थितमेतत्-तथाभूतवस्तुप्रतिपादकमेवाप्तवचनम् , एकान्तप्रतिपादकं तु नाप्तवचनम्" इति, ___ अत्र पर्यायनयाभिप्रायेण "न चात्मादिद्रव्यं विज्ञानादिपर्यायोत्पत्तौ दलं तस्य निष्पन्नत्वात्" इति वृत्तिकृतोक्तम् , द्रव्यनयाभिप्रायेण चोपचयमाहन चेति-इत्थमेवावधारितं श्रीमद्भिर्यशोविजयोपाध्यायैः, पूज्यैः श्रीहरिभद्रसूरिभिस्तु उपचयमाह
न च मूर्ताणुसंघातभिन्न स्थूलत्वमित्यदः ।
तेषामेव तथाभावो, न्याय्यं मानाविरोधतः॥४९॥ न चेति-मूर्तानां-रूपवताम् , अणूनां-परमाणूनाम् , सङ्घातात्-परिणामविशेषात् , भिन्नम्-अतिरिक्तम् , स्थूलत्वं-महत्त्वम् , न च-नैव, रूपवत्परमाणुपरिणामविशेषात्मकमेव स्थूलत्वमित्यर्थः, चाक्षुषप्रत्यक्षं प्रति उद्भूतरूपं महत्त्वं च कारणम्, तत्र महत्त्वमणुसङ्घातस्य तदात्मकत्वादेवायाति प्रत्येकमणुषु रूपाभावे तत्परिणामविशेषोऽपि रूपवान स्यादिति तत्प्रत्यक्षं न भवेदिति तत्प्रत्यक्षोपपत्तये रूपवदित्यर्थक मूर्तपदमणुपदसामानाधिकरण्येनोपदर्शितम् । इति एतस्माद्धेतोः। अदः स्थूलत्वम् । तेषामेव परमाणूनामेव । तथाभावः