SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ शास्त्रवार्तासमुच्चयः। [प्रथमः समवायसम्बन्धप्रकल्पनायां तस्य सर्वत्राविशेषात् तद्वदाकाशादावपि तत् स्यात् । अथात्मादि द्रव्यमेव तेनाकारेणोत्पद्यत इति नादलोत्पत्तिः, कार्यस्य भवत्येवमुत्पत्तिः, किन्त्वात्मद्रव्यं पूर्वमप्यासीत् पश्चादपि भविष्यति, तत्सर्वावस्थासु तादात्म्यप्रतीतेः, अन्यथा पूर्वोत्तरावस्थयोस्तत्प्रतिभासो न भवेत् ; न चैकत्वप्रतिभासो भ्रान्तः, बाधकाभावे भ्रान्त्यसिद्धेः; न चार्थक्रियाविरोधो नित्यत्वे बाधकः, अनित्यत्वे एव तस्य बाधकत्वेन प्रतिपादनात् ; न चोत्पाद-विनाशयोरपि तत्र प्रतिपत्तावेकान्ततो नित्यत्वमेव, परिणाम नित्यतया तस्य नित्यत्वात् , अन्यथा खरविषाणवत् तस्याभावप्रसङ्गात् ; न चैवं तस्य विकारित्वप्रसङ्गो दोषाय, अभीष्टत्वात् ; न च नित्यत्वविरोधः, तथैव तत् तत्त्वप्रतीतेः; न च तस्य तथात्व-" प्रतिपत्तिन्तिः , बाधकाभावादित्युक्तत्वात् ; अथ ज्ञानपर्यायादावात्मनो व्यतिरेके भेदेनोपलम्भः स्यात् , अव्यतिरेके पर्यायमानं द्रव्यमानं वा भवेत् ; व्यतिरेकाव्यतिरेकपक्षस्तु विरोधाघ्रातः, अनुभयपक्षस्तु अन्योऽन्यव्यवच्छेदरूपाणामेकनिषेधेनापरविधानादसङ्गतः, असदेतत् , व्यतिरेकाव्यतिरेकपक्षस्याभ्युपगमात् ; न च व्यतिरेकपक्षभावी तद्वयतिरेकेणोपलब्धिप्रसङ्गो दोषः, एकज्ञानव्यतिरेकेण ज्ञानान्तरेऽपि तस्य प्रतीतेय॑तिरेकोपलम्भस्य सद्भावात् , अव्यतिरेकोऽपि ज्ञानात्मकत्वेन तस्य प्रतीतेः; न च व्यतिरेकाव्यतिरेकयोरन्योऽन्यपरिहारेणावस्थानाद् विरोधः, अबाधितप्रमाणविषयीकृते वस्तुतत्त्वे विरोधासम्भवात् , अन्यथा संशयज्ञानस्यैवानेकरूपस्य वैशेषिकेण, ग्राह्यग्राहकसंवित्तिरूपस्य बुद्ध्यात्मनश्चैकानेकस्वभावस्य सौगतेन कथं प्रतिपादनमुपपत्तिमद् भवेत् , यदि प्रमाणप्रतिपन्ने वस्तुतत्त्वे विरोधः संगच्छेतेत्यादि पूर्वमेव प्रतिपादितम् ; वर्तमानपर्यायस्यान्वयिद्रव्यद्वारेण त्रिकालास्तित्वप्रतिपादकं प्रतीत्यवचनमिति सिद्धम् । परमाण्वारम्भकद्रव्यात् कार्यद्रव्यं द्वयणुकादिद्रव्यान्तरं वैशेषिकाभिप्रायतः, तेन निःसृतं संबद्धं कारणं परमाण्वादि यत् प्रतिपादयति तदपि प्रतीत्यवचनम् , तथाहित्र्यणुकरूपतया परमाणवः प्रादुर्भूताः, द्वयणुकरूपतया प्रच्युताः, परमाणुरूप. तयाऽविचलितस्वरूपा अभ्युपगन्तव्याः, अन्यथा तद्रूपतयाऽनुत्पादे प्राक्तनरूपताऽपगमो न स्यात् परमाण्यवस्थावत् , प्राक्तनरूपानपगमे वा नोत्तररूपतयोत्पत्तिस्तदवस्थावत् , परमाणुरूपतयाऽपि विनाशोत्पत्त्यभ्युपगमे पूर्वोत्तरा. वस्थयोर्निराधारविगमप्रादुर्भावप्रसक्तिः, न च तदवस्थयोरेवाऽऽधारत्वम् , तयोस्तदानीमसत्वात् ; न च पूर्वोत्तरकार्यद्रव्यविनाश-प्रादुर्भावयोः कारणद्रव्य
SR No.022388
Book TitleShastra Vartta Samucchay Part 01
Original Sutra AuthorN/A
AuthorSushilvijay
PublisherVijaylavanyasuri Gyanmandir
Publication Year1954
Total Pages300
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy