SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ सढिसयपयरणं । तैमियोमत्सरग्रस्तैर्जिननाथः, तत्पूजा हि मनःशान्तये क्रियते । किं तर्हि ? । मूढानां मोहस्थितिः सा तादृशी ज्ञायते समयनिपुणैः कुन्तलदेवीवत् ॥१५॥ सो न गुरू जुगपवरो जस्स य वयणम्मि वट्टए भेओ । चियभवणसड्ढगाणं साहारणदव्वमाईणं ॥ १५२ ॥ ( स न गुरुर्युगप्रवरो यस्य च वचने वर्तते भेदः । चैत्यभवनश्राद्धानां साधारणद्रव्यादीनाम् ॥) स गुरुर्युगप्रवरो न, यद्वचने वर्तते प्रवर्तते पार्थक्यं चैत्यभवनश्राद्धकानां साधारणद्रव्यादीनां च । मकारोऽलादाणिकः ॥१५२॥ संपइ पहुवयणेणवि जाव न उल्लसइ विहिविवेयरं । ता निबिडमोहमिच्छत्तगंठियादुट्ठमाहप्पं ॥ १५३ ॥ ( संप्रति प्रमुवचनेनापि यावन्नोल्लसति विधिविवेकत्वम् । तावन्निबिडमोहमिथ्यात्वग्रन्थितादुष्टमाहात्म्यम् ॥ ) संप्रत्यपि दुःषमायामपि प्रभोर्जिनस्य वचनेन श्रुतेन यावन्नोल्लसति विधेर्देवस्वज्ञानस्वाहत्पूजादिकर्तव्यविशेषस्य विवेको विचारणा तद्भावो विधिविवेकत्वं, तावनिबिडमोहमिथ्यात्वग्रन्थितादुष्टमाहात्म्यम् ॥१५३॥ बंधणमरणभयाइं दुक्खाइं तिक्खाइं नेय दुक्खाई। दुक्खाणमिह निहाणं पहुवयणासायणाकरण ॥ १५४ ॥ ( बन्धनमरणभयानि दुःखानि तीक्ष्णानि नैव दुःखानि । दुःखानामिह निधानं प्रमुवचनाशातनाकरणम् ॥ ) बन्धनमरणभयानि दुःखानि तीक्ष्णानि, तानि च नैव दुःखानि, अल्पकालभावित्वात् तेषाम् । किं तर्हि ? । दुःखानामिह जगति निधानं प्रभुवचनाशातनाकरणम् , "ओसायणमिच्छत्तं" इत्याधुक्तेः ॥१५४॥ पहुवयणविहिरहस्सं नाऊणवि जाव दीसए अप्पा । ता कह सुसावयत्तं जे चिनं धीरपुरिसेहिं ? ॥ १५५ ॥ (प्रमुवचनविधिरहस्यं ज्ञात्वापि यावद् दृश्यत आत्मा । तदा कथं सुश्रावकत्वं यच्चीर्णं धीरपुरुषैः ? ॥ ) . १ आशातनामिथ्यात्वम् ।
SR No.022341
Book TitleSatthisay Payaranam
Original Sutra AuthorN/A
AuthorHargovinddas
PublisherAtmaram Sharma
Publication Year
Total Pages56
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy