SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ सट्ठिसयपयरणं । ( यदि जानासि जिननाथो लोकाचाराणां पक्षतो भूतः । तदा त्वं तं मन्यमानः कथं मन्यसे लोकाचारान् ? ॥) यदि जानासि जिननाथो लोकाचाराणां पर्वादिषु जनसत्कारादिरूपाणां पक्षतो भूतो दूरस्थः, तर्हि त्वं भोः श्रोतः ! तमहन्तं मन्यमानः कथं मन्यसे लोकाचारान् ? । मकारोऽलाक्षणिकः ॥१४॥ जे मन्नति जिणिदं पुणोवि पणमंति इयरदेवाणं । मिच्छत्तसंनिवायगघत्थाणं ताण को विज्जो ? ॥१४९॥ ( ये मत्वा जिनेन्द्रं पुनरपि प्रणमन्तीतरदेवान् । मिथ्यात्वसंनिपातग्रस्तानां तेषां को वैद्यः ? ॥) ये केचिद् मानयित्वाऽर्हदुक्तं धर्ममङ्गीकृत्य पूजादिना प्रणमन्तीतरदेवान हरिहरादीन् , तेषां मिथ्यात्वमेव संनिपातो वातपित्तश्लेष्मणामैक्याद् रोगविशेषस्तेन प्रस्तानां को वैद्यः को भाविभिषग् ? ॥१४॥ एगो सुगुरू एगावि सावया चेइयाणि विविहाणि । तत्थ य जं जिणदव्वं परुप्परं तं न विचंति ॥१५०॥ ( एकः सुगुरुरेकेऽपि श्रावकाश्चैत्यानि विविधानि । तत्र च यज्जिनद्रव्यं परस्परं तद् न व्ययन्ते ॥ ) अपेरेवकारार्थत्वादेक एव सुगुरुः,सुगुरुता चास्य बाह्याडम्बरदर्शनेन तादृशलोकापेक्षया न तु पारमार्थिकी, एके एव नामश्रावकाः,तथाचैत्यानि विविधान्येकान्येव । तत्र च सुगुरुश्रावकचैत्यानामैक्येऽपि यज्जिनद्रव्यम्, उपलक्षणेन ज्ञानस्वसाधारणग्रहः, तत् परस्परं न विक्रीणन्ति अज्ञानावृताः सन्तो न व्ययन्ते । अन्यसाधर्मिककारितचैत्ये द्रव्यं सदपि न ददातीत्यर्थः ॥१५०॥ ते न गुरू नो सड्ढा न पूइओ होइ तेहिं जिणनाहो । मूढाणं मोहट्टिई सा नज्जइ समयनिउणेहिं ॥१५१॥ ( ते न गुरवो नो श्राद्धा न पूजितो भवति तैर्जिननाथः । मूढानां मोहस्थितिः सा ज्ञायते समयनिपुणैः ॥) यदुपदेशात् ते श्राद्धाभासास्तथा कुर्वन्ति ते न गुरवः । गुरवस्तु न स्वदाक्षिण्यादिना श्लिष्टं वदन्ति । तथा, न ते श्राद्धाः। न पूजितो भवति
SR No.022341
Book TitleSatthisay Payaranam
Original Sutra AuthorN/A
AuthorHargovinddas
PublisherAtmaram Sharma
Publication Year
Total Pages56
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy