SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ सहिसयपयरणं । समयविऊ असमत्था सुसमत्था जत्थ जिणमए अविऊ । तत्थ न वड्ढइ धम्मो पराभवं लहइ गुणरागी ॥४९॥ [ समयविदोऽसमर्थाः सुसमर्था यत्र जिनमतेऽविदः । तत्र न वर्धते धर्मः पराभवं लभते गुणरागी ॥ ] समयविदोऽसमर्थाः क्वचित् क्षेत्रकालादिमहिम्ना, सुसमा यत्र जिनमतस्याविदोऽज्ञाः। तत्र क्षेत्रादौ न वर्धते धर्मः, किन्तु पराभवं लभते गुणरागी ' तिष्ठन' इति शेषः॥४६॥ जं न करइ अइभावं अमग्गसेवी समत्थओ धम्मे । ता लटुं, अह कुज्जा ता पीडइ सुद्धधम्मत्थी ॥ ५० ॥ [ यन्न करोत्यतिभावममार्गसेवी समर्थको धर्मे । तलष्टं, अथ कुर्यात्तदा पीडयति शुद्धधर्मार्थिनः ॥] यद् न करोत्यतिभावमतिश्रद्धामुन्मार्गप्ररूपकः । किं० । समर्थको धर्मे । तल्लष्टम्, अयोग्यत्वात्तस्य । अथ कुर्यात्, तर्हि पीडयति शुद्धधर्मार्थिनः ॥५०॥ जइ सव्वसावयाणं एगच्चं जं तु मिच्छवायम्मि । धम्मत्थियाण सुंदर ! ता कह णु पराभवं कुज्जा ? ॥ ५१ ॥ [ यदि सर्वश्रावकाणामेकत्वं यत्तु मिथ्यावादे । धर्मार्थिनां सुन्दर ! तदा कथं नु पराभवं कुर्यात् ! ॥] 'यदि' अग्रे योजयिष्यते, सर्वश्राद्धानामेकत्वमेकीभावो यत्तु यत्पुनमिथ्यावादः 'अत्र चैत्ये वयमेव स्तोत्रारत्रिकाद्यधिकारिणः, अस्मासु सत्सु कथमभूतपूर्वः सुविहितप्रवेशोत्सवः' इत्यादिरूपो वर्तते, तदेकत्वं यदि धार्थिनां धर्मविवादे भवति, भोः सुन्दर ! 'ता' तर्हि कथं केन प्रकारेण 'नु' वितर्के पराभवं धार्थिनां मिथ्यात्वलोकः कुर्यात् ? ॥५१॥ तं जयइ पुरिसरयणं सुगुणड्ढं हेमगिरिवरमहग्छ । जस्सासयम्मि सेवइ सुविहिरओ सुद्धजिणधम्मं ॥ ५२ ॥ [ तन्जयति पुरुषरत्नं सुगुणाढ्यं हेमगिरिवरमहाघम् । यस्याश्रये सेवते सुविधिरतः शुद्धजिनधर्मम् ॥] जयति पुरुषरत्नमौदार्यधैर्यादिसुगुणाढ्यम् , अत एव मेरुवन्महा
SR No.022341
Book TitleSatthisay Payaranam
Original Sutra AuthorN/A
AuthorHargovinddas
PublisherAtmaram Sharma
Publication Year
Total Pages56
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy