SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ १६ सट्ठियपयरणं । तदेव पूजाप्रमुखं भूतानुग्रहरहितं, मोऽलाक्षणिकः, जीवानुकम्पोज्झितमाशाभङ्गाद् दुःखदा यि । प्रयं भावः - यतीनां हि द्रव्यपूजाया नाधिकारः, ये च द्रव्यपूजाधिकारिणस्ते स्वत एव कायवधप्रवृत्ताः सन्ति । ततस्तदर्थं सापेक्षाः सानुकम्पाः “भूमीपेहणजलकाणणाइजयगाओ होइ न्हाणाई” इत्यादियतनया प्रतिमाङ्गलग्नकुन्ध्वादि निरीक्ष्य तदपसारणादिरूपया च द्रव्यतः कमपि कायवधं कुर्वन्तोऽपि भावतो रागद्वेषरहितत्वाद् भूतानुग्रहवन्त एव ॥ ४५ ॥ कट्ठे करंति अप्पं दमंति दव्वं चयंति धम्मत्थी | इक्क न चयइ उस्सुत्तविलसवं जेण बुडुंति ॥ ४६ ॥ [ कष्टं कुर्वन्त्यात्मानं दमयन्ति द्रव्यं त्यजन्ति धर्मार्थिनः । एकं न त्यजन्त्युत्सूत्रविषलवं येन बुडन्ति ॥ ] कष्टं लोचभूशयनानुपानत्कत्वतपः प्रमुखं कुर्वन्ति, आत्मानं दमयन्ति, द्रव्यं त्यजन्ति धर्मार्थिनः । परमेकं न त्यजन्त्यज्ञानादुत्सूत्रविषलवं येन ब्रुडन्ति भवाब्धौ ॥ ४६ ॥ सुद्धविहिधम्मरागो वड्ढइ सुद्धाण संगमे सुयणा ! | सोविय असुद्धसंगे निउणाणवि गलइ अणुदियहं ॥४७॥ [ शुद्धविधिधर्मरागो वर्धते शुद्धानां संगमे सुजनाः ! | सोऽपि चाशुद्धसङ्गे निपुणानामपि गलत्यनुदिवसम् ॥ ] शुद्धो विधिः करणप्रकारः स चासौ धर्मश्च तत्र रागो वर्ध शुद्धानां निर्मलाचारवतां संगमे भोः सुजनाः ! । स एव च धर्मरागोशुद्धानां पार्श्वस्थादीनां सङ्गे विधिज्ञानामपि गलत्यनुदिनम् ॥४७॥ जो सेवर सुद्धगुरू असुद्धलोयाण सो महासत्तू । तम्हा ताण सयासे बलरहिओ मा वसिज्जासु ॥ ४८ ॥ [ यः सेवते शुद्धगुरूनशुद्ध लोकानां स महाशत्रुः । तस्मात्तेषां सकाशे बलरहितो मा वात्सीः ॥ ] यो भव्यः सेवते शुद्धगुरून, शुद्धलोकानां मिथ्यात्विनामर्थाल्लि - ङ्गिनां स महाशत्रुरिव । तस्मात् तेषां सकाशे स्वजनबलादिरहितो मा वसेः । ते ह्यबलं तं परिभवेयुरिति ॥४८॥ । १ भूमीप्रेक्षणजलगालनादियतनातो भवति स्नानादि ।
SR No.022341
Book TitleSatthisay Payaranam
Original Sutra AuthorN/A
AuthorHargovinddas
PublisherAtmaram Sharma
Publication Year
Total Pages56
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy