SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ सहिसयपयरणं । - [ किं भणामः किं कुर्मस्तेषां हताशानां धृष्टदुष्टानाम् । ये दर्शयित्वा लिङ्गं क्षिपन्ति नरके मुग्धजनम् ? ॥] किं भणामः, उपदेशानहत्वात् 'को दाही उवएसं' इत्युक्तेः; तथा, किं कुर्मः, उपकारापकारयोर्मध्यात् । तेषां हता आशा शुभेच्छा येषां यैर्वा तेषां हताशानाम्, तथा, धृष्टाः प्रगल्भाः, दुष्टा दोषवन्तस्तेषाम्; ये प्रदर्श्य लिङ्गं, 'लिङ्गं पूज्यमेव' इत्युक्त्वा क्षिपन्ति नरके मुग्धजनं स्ववन्दापनादिजनितदोषेण ॥ ४० ॥ कुगुरूवि संसिमो हैं जेसिं मोहाइचंडिमा दटुं। सुगुरूण उवरि भत्ती अइनिविडा होइ भव्वाणं ॥ ४१ ॥ [ कुगुरूनपि शंसाम्यहं येषां मोहादिचण्डिमानं दृष्ट्वा । सुगुरूणामुपरि भक्तिरतिनिबिडा भवति भव्यानाम् ॥ ] कुगुरूनपि प्रशंसामि, प्राकृतत्वादेकत्वेऽपि बहुत्वम्, अहम्; येषां मोहोऽज्ञानं स प्रादिर्येषां राग-द्वेषादीनां तैश्चण्डिमा रौद्रत्वं भयहेतुत्वं दृष्ट्वा सुगुरूणामुपरि सुविहितविषये भक्तिर्गौरवविशेषोऽतिनिबिडा भवति भव्यानाम् । श्राद्धादिकृते कलहायमानान् दृष्ट्वा भव्यानां तेष्वनादरः, सुविहितेष्वादरो जायत इत्यर्थः ॥४१॥ जह जह तुट्टइ धम्मो जह जह दुट्ठाण होइ इह उदओ। सम्मदिडिजियाण तह तह उल्लसइ सम्मत्तं ॥ ४२ ॥ [ यथा यथा त्रुट्यति धर्मो यथा यथा दुष्टानां भवतीहोदयः । सम्यग्दृष्टिजीवानां तथा तथोल्लसति सम्यक्त्वम् ॥] यथा यथा त्रुट्यत्यल्पीभवति दुर्लभः स्यादित्यर्थः, धर्मः श्रुतचारित्ररूपः, कालादिदोषात् "सैषा हुण्डावसर्पिण्यनुसमयहसद्व्यभावानुभावा" इत्यादिरूपात्; यथा यथा च दुष्टानां धर्मद्वेषिणां भवति इह काले उदय उन्नतिः, सम्यग्दृष्टिजीवानां तथा तथा उल्लसति सम्यक्त्वम्, . "कलहकरा डमरकरा असमाहिकरा अनिव्वुइकरा य । होहिंति इत्थ समणा दससुवि खित्तेसु सयराहं ॥१॥" इति भगवदुक्तेरविसंवाददर्शनेन भगवत्यास्थातिरेकात् ॥४२॥ १ को दास्यत्युपदेशम् । २ कलहकरा डमरकरा असमाधिकरा अनिवृत्तिकराश्च । भविष्यन्त्यत्र श्रमणा दशस्वपि क्षेत्रेषु शीघ्रम् ॥१॥
SR No.022341
Book TitleSatthisay Payaranam
Original Sutra AuthorN/A
AuthorHargovinddas
PublisherAtmaram Sharma
Publication Year
Total Pages56
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy