SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ सहिसयपयरणं । [ सर्प एकं मरणं कुगुरुरनन्तानि ददाति मरणानि । ततो वरं सर्प ग्रहीतुं मा कुगुरुसेवनं भद्र ! ॥] सर्पः स्पृष्टो विराद्धो वा एकमित्येकवारं मरणं ददाति, तथा कुगुरुराराधितोऽनन्तानि ददाति मरणानि । 'तो' तस्माद् वरं सर्प ग्रहीतुमु. द्यमः। 'मा' निषेधे, कुगुरुसेवनं कारिति हे भद्र ! ॥३७॥ जिणआणावि चयंता गुरुणो भणिऊण जं नमिज्जंति । ता किं कीरइ लोओ छलिओ गड्डरिसवाहेण ॥ ३८ ॥ [ जिनाज्ञामपि त्यजन्तो गुरवो भणित्वा यन्नम्यन्ते ।। तत् किं क्रियते लोकश्छलित ऊर्णायुप्रवाहेण ॥] जिनाझा "सेमिईकसायगारवइंदियमयबंभचेरगुत्तीसु” इत्यादिरूपां त्यजन्तोऽपि तद्भङ्गद्वारा, तेऽपि गुरवो भणित्वा 'एतेऽस्मदीयाः' इत्युक्त्वा यन्नम्यन्ते लोकैः, 'ता' तत् किं क्रियते, लोकश्चलितो वञ्चितो गड्डुर्य ऊर्णायवस्तासां प्रवाहो नाम यत्र क्वापि गर्तादावेका पतति तत्र सकलमपि यूथं पततीति । तेन कुत्रापि कार्ये कश्चित् केनापि कदाशयेन प्रवृत्तस्तत्प्रत्ययात् तत्रान्येषामपि प्रवृत्तिः ॥३८॥ निदक्खिन्नो लोओ जइ कुवि मग्गेइ रुट्टियाखंड । कुगुरूण संगचयणे दक्खिन्नं ही ! महामोहो ॥ ३९ ॥ [निर्दाक्षिण्यो लोको यदि कोऽपि मार्गयति रोट्टिकाखण्डम् । कुगुरूणां सङ्गत्यजने दाक्षिण्यं ही ! महामोहः ॥] दाक्षिण्यं जनचित्तानुवृत्तिः, निर्गतं दाक्षिण्यं यस्य स निर्दाक्षिण्यो लोकः 'अस्ति' इति गम्यम् । कथम्? । यदि कोऽपि रकादिर्मार्गयति चादूक्तिभी रोट्टिका पूपलिका तस्याः खण्डं 'तथापि न ददाति' इति शेषः । अथ च कुगुरूणांसङ्गत्यजने दाक्षिण्यम् एतेऽस्मद्वंश्यैराहताः, वयं तद्गच्छे स्तम्भभूता प्राचार्यपदस्थापनाद्युत्सवकारिणश्च, तदमून् कथं त्यजामः?' इति ही खेदे महामोहो महदज्ञानम् ॥ ३६ ॥ किं भणिमो किं करिमो ताण हयासाण धिट्ठदुट्ठाण । जे दंसिऊण लिंग खिवंति नरयम्मि मुद्धजणं? ॥ ४० ॥ १ समितिकषायगोनेन्द्रियमदब्रह्मचर्यगुप्तिषु ।
SR No.022341
Book TitleSatthisay Payaranam
Original Sutra AuthorN/A
AuthorHargovinddas
PublisherAtmaram Sharma
Publication Year
Total Pages56
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy