________________
[ स्वाध्यायदोहन
कृतप्रतिकृता वृद्धिः स्यात् सम्बन्धविरोधयोः । परोकं तेन नो धत्ते, योगी लाभनकोपमम् ॥ १३ ॥
अध्याय - ३ ]
164
महतां दूषणोद्धारादुपकारी खलः खलु । मुधा निदायकं सस्यक्षेत्रे, को नाऽभिनन्दति ? ॥ १४ ॥ अर्थमिच्छन्ति सन्तोऽपि किन्त्वनौपाधिकत्वतः । स्वगुणख्यापनान्मध्याः, नीचास्तु परदूषणात् ॥ १५ ॥ आस्तां स्वात्ताऽऽतपत्राभं, स्वगुणोच्चारणं स्वयम् । अन्येनाऽपि गुणे ह्यात्ते, साधुर्नम्रो ह्रिया भवेत् ॥ १६ ॥ दूषयित्वाऽन्यवस्तूनि, गुणारोपं स्ववस्तूनः । वणिग्धर्मेऽपि शौचात्मा, न कुर्यात् किं पुनर्यतिः १ ॥ १७ ॥ उद्धर्तुं नैव शक्यन्ते, सर्वतो भुवि कण्टकाः ।
स्वयं तु शक्यते मोक्तुं पादो निष्कण्टकक्षितौ ॥ १८ ॥
"
रक्ता देह - यशो - धर्मे, पत्र पुष्प - फलप्रभे ।
तदा त्वचिरनित्यस्थे, स्वल्पधी - मध्यमो - त्तमाः ॥ १९॥
चक्षुः - श्रवणवैकल्यात् पापानां मोहनिद्रया |
दिवाऽपि रजनी साऽपि धर्मिणां दिवसायते ॥ २० ॥
"
कलिकालकुवातेऽत्र, वाति यस्य विनश्यति ।
न सस्यं, शस्यते लोके, स एव पृथुभाग्यभूः ॥ २१ ॥