SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ मूलाचारे लोके बांधवा किंचित्कार्यं कुर्वन्ति ते न परलोकं समं यन्ति गच्छन्तिनामुत्र लोके बान्धवास्ते भवन्तीत्यर्थः ॥ १० ॥ तथा;अण्णो अण्णं सोयदि मदोत्ति मम णाहओत्ति मण्णंतो। अत्ताणं ण दु सोयदि संसारमहण्णवे बुडं ॥ ११ ॥ अन्यः अन्यं शोचयति मृत इति मम नाथ इति मन्यमानः आत्मानं न तु शोचयति संसारमहार्णवे बुडितं ॥ ११ ॥ टीका--अन्यः कश्चिदन्यं जीवं शोचयति मृतो मम नाथ इति मन्यमानः, आत्मानं न तु शोचयति संसारमहार्णवे संसारमहासमुद्रे मग्नमिति ॥११॥ शरीरादप्यन्यत्वमाह;अण्णं इमं सरीरादिगं पि जं होज बाहिरं दव्वं । णाणं दंसणमादात्ति एवं चिंतेहि अण्णत्तं ॥ १२ ॥ अन्यत् इदं शरीरादिकमपि यत् भवेत् बहिर्द्रव्यं । ज्ञानं दर्शनमात्मा इति एवं चिंतय अन्यत्वं ॥ १२ ॥ टीका-शरीरमप्यन्यदिदं, किं पुनर्यद्वहिर्द्रव्यं नान्यदिति ? तस्माज्ज्ञानं दर्शनमात्मेत्येवं चिन्तयान्यत्वमिति ॥ १२ ॥ संसारस्य स्वरूपं विवृण्वन्नाह;मिच्छत्तेणो छण्णो मग्गं जिणदेसिदं अपेक्खंतो। भमिहदि भीमकुडिल्ले जीवो संसारकंतारे ॥ १३ ॥ मिथ्यात्वेन आछन्नो मार्ग जिनदेशितं अपश्यन् । भ्रमति भीमकुटिले जीवः संसारकांतारे ॥ १३॥
SR No.022303
Book TitleMulachar Satik Part 02
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1924
Total Pages338
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy