SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ दादशानुप्रेक्षाधिकारः। एकत्वस्वरूपमाह;सयणस्स परियणस्स य मज्झे एक्को रुवंतओ दुहिदो। वजदि मच्चुवसगदो ण जणो कोई समं एदि ॥ ८॥ स्वजनस्य परिजनस्य च मध्ये एकः रुजातः दुःखितः। व्रजति मृत्युवशगतः न जनः कश्चिदपि समं पति ॥ ८॥ टीका-स्वजनस्य भ्रातृव्यपितृव्यादिकस्य, परिजनस्य दासमित्रादिकस्य च मध्ये, एकोसहायः, रुजार्तो व्याधिग्रस्तो दुःखितः व्रजति मृत्युवशंगतो न जनः कश्चित् तेन सममेति गच्छति ॥ ८॥ तथा;एक्को करेइ कम्मं एक्को हिंडदि य दीहसंसारे। एक्को जायदि मरदि य एवं चिंतेहि एयत्तं ॥९॥ एकः करोति कर्म एकः हिंडते च दीर्घसंसारे। एक: जायते म्रियते च एवं चिंतय एकत्वं ॥ ९ ॥ टीका-एकः करोति शुभाशुभं कर्म, एक एव च हिण्डते भ्रमति दीर्घसंसारे, एको जायते, एकश्च म्रियते, एवं चिन्तय भावयैकत्वमिति ॥ ९॥ अन्यत्वस्वरूपमाह;मादुपिदुसयणसंबंधिणो य सव्वे वि अत्तणो अण्णे । इह लोग बंधवा ते ण य परलोगं समं णेति ॥ १० ॥ मातृपितृस्वजनसंबंधिनश्च सर्वेपि आत्मनः अन्ये। इह लोके बांधवास्ते न च परलोकं समं यन्ति ॥ १० ॥ टीका–मातृपितृस्वजनसंबंधिनः सर्वेऽपि आत्मनोऽन्ये पृथग्भूता इह
SR No.022303
Book TitleMulachar Satik Part 02
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1924
Total Pages338
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy