________________
३६४
मूलाधारेपरिणतनामाशनदोषः । तथा लिप्तोऽपासुकवर्णादिसंसक्तस्तन भाजनादिना दीयमानमाहारादिकं यदि गृहाति तदातस्य लिप्तनामाशनदोषः। तथा छोडिद परित्यजनं भुंजा. नस्यास्थिरपाणिपात्रेणाहारस्य परिशतनं गलनं परित्यजनं यत्क्रियते तत्परित्यजननामाशनदोषः। एतेऽशनदोषा दशैव भवंति ज्ञातव्या इति ॥ ४३ ॥
शंकितदोष विवृण्वन्नाहअसणं च पाणयं वा
खादीयमध सादियं च अज्झप्पे । कप्पियमकप्पियचिय
संदिद्धं संकियं जाणे ॥४४॥ अशनं च पानकं वा खाद्यं अथ स्वाद्यं च अध्यात्मनि काल्पतमकल्पितमिति च सदिग्धं शंकितं जानीहि
अशनं भक्तादिकं, पानकं दधिक्षीरादिकं खाद्यं लड्डुकशोकवादिकं, अथ स्वायं एलाकस्तूरीलवंगकुक्कोला. दिकं । वाशब्दरत्र स्वगतभेदा ग्राह्याः । अध्यात्मे भागमे चेतसि वा कल्पिनं योग्यमकल्पितमयोग्यमिति सन्दिग्धं संशयस्थं शंकित जानीहि, भागमे किमेतन्मम कल्प्यमुत नेति य. वेव संदिग्धमाहारं भुंक्त तदा शंकितनामाशनदोष जानीहि ।