________________
३०६
मूलाचारलाघवं निःसंगता लोभनिरासः। भक्तिर्गुरुसेवा । प्रल्हादकरणं च सर्वेषां सुखोत्पादनं । यो विनयं करोति तेनाचरजीदकल्पविषया ये गुणास्ते दीपिता उद्योतिता भवंति । आर्जवमार्दवलाघवभक्तिमल्हादकरणानि च भवंति विनयकर्तरिति । कित्ती मित्ती माणस्स भंजणं गुरुजणे य बहुमाणं तित्ययराणं आणा गुणाणुमोदो य विणयगुणा कीर्तिः मैत्री मानस्य भंजनं गुरुजने च बहुमानं । तीर्थकराणां आज्ञा गुणानुमोदश्व विनयगुणाः ।। ___ कीर्तिः सर्वव्यापी प्रतापः ख्यातिश्च । मैत्री सर्वैः सह मित्रभावः । मानस्य गर्वस्य भंजनमामर्दनं । गुरुजने च बहुमानं पूजाविधानं । तीर्थकराणामाज्ञा पालिता भवति । गुणानुमोदश्च कृतो भवति । एते विनयगुणा भवन्तीति । विनयस्य कर्ता कीर्ति लभते । तथा मैत्री लभते । तथात्मनो मानं निरस्यति । गुरुजनेभ्यो बहुमानं लभते । तीर्थकराणामाज्ञां च पालयति । गुणानुरागं च करोतीति ॥ १९१ ॥
वैयाढत्यस्वरूपं निरूपयन्नाहआइरियादिसु पंचसु सबालवुड्डाउलेसु गच्छेसु । वेजावचं वुत्नं कादव्यं सव्वसत्तीए॥ आचार्यादिषु पंचसु सबालवृद्धाकुलेषु गच्छेषु ।