________________
२३८
मू लाचारे
मठा दिपालनेनाज्ञानादिना वा गुरुः सदोषस्तस्य शिष्यो ज्ञानी तपस्वी च कुलहीन इत्युच्यते । अथवा तीर्थकरगणधर सप्तर्षिसं- प्राप्तेभ्योऽन्ये यतयः कुलव्रतशील विहीनास्तेभ्यः कुलव्रतशीलविहीनेभ्यः सम्यकशास्त्रमवगम्य ज्ञात्वा कुलव्रतशीलैर्ये महान्तस्तान् यदि कथयति तेभ्यो मया शास्त्रं ज्ञातमित्येवं तस्य जल्पतो निन्हवदोषो भवति । श्रात्मनो गर्वमुद्वहता शास्त्रनिन्हवो गुरुनिन्हवश्च कृतो भवति । ततश्च महान कर्मबन्धः । जैनेन्द्रं च शास्त्रं पठित्वा श्रुत्वा पश्चाज्जल्पति न मया तत्पठितं, न तेनाहं ज्ञानीति किन्तु नैयायिक-वैशेषिक-सांख्यमीमांसा - धर्मकीर्त्यादिभ्यो मम बोधः संजात इति निग्रन्थयतिभ्यः शास्त्रमवगम्यान्यत्प्रतिपादयति ब्राह्मणादीन, करमाल्लोक पूजाहेतोर्यदा मिथ्यादृष्टिरसौ तदाप्रभृति मन्तव्यः निन्हवदोषेणेति । सामान्ययतिभ्यो ग्रन्थं श्रुत्वा तीर्थकरादीन प्रतिपादयत्येवमपि निन्हवदोष इति ॥ ८७ ॥ व्यञ्जनार्थो भयशुद्धिस्वरूपार्थमाह-
विंजणसुद्धं सुत्तं अत्थविसुद्धं च तदुभयविसुद्धं । पयदेण य जपतो णाणविसुद्ध हवइ एसो ॥ व्यंजनशुद्धं सूत्रं अर्थाविशुद्धं च तदुभयविशुद्धं । प्रयत्नेन च जल्पन् ज्ञानविशुद्धो भवति एषः ॥ ८८ ॥
-
व्यञ्जनशुद्धं, अक्षरशुद्धं पदवाक्यशुद्धं च दृष्टव्यं देशा