SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ २८ ति एतत् 'वयं' ति व्रतं = ब्रह्मचर्यमिति श्लोकार्थः ॥ १२४॥ मूलशुद्धिप्रकरणम्-द्वितीयो भागः किमेतदेव ब्रह्मचर्यं दुर्धरत्वाद्गुणकारणमुताऽन्यदपि ? अत आहमोक्खावहं अणुट्ठाणं सव्वं सव्वण्णुदंसियं । भिक्खुणीणं कुणंतीणं संभवंति धुवं गुणा ॥ १२५ ॥ मोक्षावहं= शिवकारि, अनुष्ठानं = क्रियाकलापरूपम्, सर्वं = समस्तम्, सर्वज्ञदर्शितं = तीर्थकरप्रतिपादितम्, भिक्षुणीनां = संयतीनाम्, 'कुणंतीणं' कुर्वतीनाम्, सम्भवन्ति = सम्भाव्यन्ते, ध्रुवं = निश्चितम् गुणाः = ज्ञानादय इति श्लोकार्थः ॥१२५॥ यदि गुणाः सम्भवन्ति ततः किम् गुणा लिहीलाए एगाहारगयाण वि । सन्नाण - चरणाईणं सव्वे सव्वत्थ हीलिया ॥ १२६ ॥ गुणानां = ज्ञानादीनाम्, 'कील' इत्याप्तवादसंसूचकः हीलया = निन्दया, एकाधारगतानामपि आस्तां प्रभूताधारगतानाम्, सज्झान - चरणादीनां = मतिज्ञानादि - चारित्रप्रभृतीनाम्; आदिशब्दाद् दर्शन- तपः - संयमप्रभृतयो गृह्यन्ते, सर्वे = समस्ताः, सर्वत्र= मर्त्यलोके, हीलिताः =अपमानिताः, भवन्तीत्यध्याहार इति श्लोकार्थः ॥ १२६ ॥ तद्हीलनादौ च को दोषः ? इत्याशङ्कायामाह इहेव हीलिया हाणि हसिया रोवियव्वए । अक्कोसिया वहं बंधं, मरणं दिति ताडिया ॥१२७॥ इहैव = अत्रैव जन्मनि, हीलिताः = अगौरव्यताविषयीकृताः, हानीम् = अर्थनाशादिकाम्, ददतीति श्लोकान्ते क्रिया । हसिताः = हास्यविषयं प्रापिताः, रोदनाय = आक्रन्दनाय, जायन्त इत्यध्याहारः । आक्रोशिताः = आक्रुष्टा; वधं = लकुयदिघातम्; बन्धं = रज्ज्वादिसंयमनं ददति । मरणं = प्राणत्यागलक्षणम् ददति = प्रयच्छन्ति; ताडिताः = लताघातादिभिरिति श्लोकार्थः ॥१२७॥ हीलनादिभिश्च तेषामाशातना कृता भवति, तस्याश्चाऽनन्तसंसारकारणत्वादित्यत आह तत्तो आसायणाए उ, दीहो बहुदुहावहो । गोसाल - संगमाणं व, दुरंतो भवसाय ॥१२८॥ ततः=तस्मात्, आशातनया = आय: = लाभस्तस्य शातना आशातना तया, दीर्घः = १. ता. 'ण्णुदेसियं ॥ २. ता. धुयं ॥
SR No.022287
Book TitleMulshuddhi Prakaranam Part 02
Original Sutra AuthorN/A
AuthorDharmdhurandharsuri, Amrutlal Bhojak
PublisherShrutnidhi
Publication Year2002
Total Pages348
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy