SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ मूलशुद्धिप्रकरणम्-द्वितीयो भागः माइगुणवंतीणं समणीणं जहाविहिं । सक्कार- सेवणाईयं किच्चं कुज्जा विभागओ ॥११५॥ एवमादि=पूर्वोक्तादि गुणवतीनां = गुणयुक्तानाम्, श्रमणीनां = संयतीनाम्, यथाविधि= यथाविधानम्, सत्कार-सेवनादि आस्तां पूर्वोक्तम्, तत्र सत्कारः = वस्त्रादिभिः पूजनम्, सेवना=पर्युपासना, सत्कारश्च सेवना च सत्कारसेवने ते आदिर्यस्य ग्लानप्रतिचरणादेस्तत्तथा, 'किच्चं' ति कृत्यम्, कुर्यात् = विदध्यात्, विभागतः = स्वकीयस्थानानुल्लङ्घनेनेति श्लोकार्थः ॥११५॥ अत्राऽन्तरे पराभिप्रायसूचकं सूरिः श्लोकमाह त्थमणे उमति, इत्थीभावे कओ गुणा ? | तुच्छाइदोसदुट्ठाओ, अज्जाओ जं जिणागमे ॥ ११६॥ 'एत्थं' ति अत्र=प्रस्तुतव्यापारे 'अन्ने उ' त्ति अन्ये = अपरे, तुशब्दः पुनरर्थः, मन्यन्ते = प्रतिपद्यन्ते, स्त्रीभावे = स्त्रीत्वे, 'कओ' त्ति कुतः, गुणाः =ज्ञानादयः, तुच्छादिदोषदुष्टा आर्या यजिनागमे = अर्हत्प्रवचने । उक्तं च तुच्छा गारवबहुला चलिंदिया दुब्बलाय धीईए । तो अइसेसियगंथा दिट्ठीवाओ य नो थीणं ॥ ३ ॥ (विशे० गा० ५५५) इति श्लोकार्थः ॥११६॥ आगमोक्तमेव सूत्रकृत् स्वयमेव प्रतिपादयतितुच्छा इत्थी सहावेणं, इड्डीगारवदूसिया । चंचला इंदियेहिं च, धीईए दुब्बला सढा ॥११७॥ तुच्छा = गाम्भीर्यरहिता, 'इत्थि' त्ति स्त्री, स्वभावतः=प्रकृत्या, तथा च जइ नाम कहवि गंभीरिमा वि नारीण हुंतया सहया । तुच्छत्तणं वरायं निरासयं कत्थ निवसतं ? ॥३२९॥ ऋद्धिगौरवदूषिता = विभूत्यभिमानकलङ्किता, तथा च संपाविऊण रिद्धि अहियं गव्वं करेइ महिलयणो । जाईय पच्चएणं थीरयणं जह तु चक्किस्स ॥३३०॥ 'चंचला इंदिएहिं च' चञ्चला = चपला, इन्द्रियैः = करणैः, चकारोऽग्रे योज्यः । १. ता. भावओ ॥ २. ला. विना 'पारे तुशब्दः ॥
SR No.022287
Book TitleMulshuddhi Prakaranam Part 02
Original Sutra AuthorN/A
AuthorDharmdhurandharsuri, Amrutlal Bhojak
PublisherShrutnidhi
Publication Year2002
Total Pages348
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy