SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ ५४ सूत्रार्थमुक्तावल्याम् [ द्वितीया तिर्यक्षु च कस्यचिद्देशविरतिरेव । क्षेत्रावसरो यस्मिन् क्षेत्रे चारित्रप्राप्तिः, तत्र सर्वविरतिसामायिकस्याधोलौकिकग्रामसमन्वितं तिर्यक्क्षेत्रमेव, तत्राप्यर्धतृतीयद्वीपसमुद्राः, तत्रापि पञ्चदशसु कर्मभूमिषु, तत्रापि भरतक्षेत्रमपेक्ष्यार्धषड्विंशेषु जनपदेष्वित्यादिकः क्षेत्ररूपोऽवसरः, अन्यस्मिंश्च क्षेत्रे आद्ये व सामायिके | कालावसरः कालरूपः स चावसर्पिण्यां सुषमदुस्संमादुस्समसुषमादुस्समासु 5 तिसृषु समासु, उत्सर्पिण्यान्तु तृतीयचतुर्थारकयोः सर्वविरति सामायिकस्य प्रतिपाद्यमानकापेक्षया, पूर्वप्रतिपन्नासु सर्वत्र सर्वासु समासु । भावावसरश्च कर्मभावनोकर्मभावावसरभेदेन द्विविधः, कर्मभावावसरः कर्मणामुपशमक्षयोपशमान्यतरावाप्तावसर उच्यते, तत्रोपशमश्रेण्यां चारित्रमोहनीय उपशमितेऽन्तर्भौहूर्त्तिक औपशमिकचारित्रक्षणो भवति, तस्यैव मोहनीयस्य क्षयेणान्तमौहूर्तिक एव छद्मस्थयथाख्यात चारित्रक्षणो भवति, क्षयोपशमेन तु क्षायोपशमिकचारित्रावसरः, स चोत्कृष्टतो देशोन10 पूर्वकोटिं यावत् । सम्यक्त्वक्षणस्त्वजघन्योत्कृष्टस्थितावायुषो वर्त्तमानस्य, शेषाणान्तु कर्मणां पल्योपमासंख्येयभागन्यूनान्तःसागरोपमकोटी कोटिस्थितिकस्य जन्तोर्भवति । नोकर्मभावक्षणस्तु आलस्य मोहावर्णवादस्तम्भाद्यभावे सम्यक्त्वाद्य वात्यवसरः, आलस्याद्युपहतस्य संसारसंतरणयोग्यमनुष्यभवप्राप्तावपि बोध्यादेरप्राप्तेः । तदेवं विषयकषाय मातापित्रादिकमात्मनेऽहितमुत्सृज्य ज्ञानदर्शनचारित्रात्मके आत्मानमधिष्ठापयेदिति भावः ॥ २१ ॥ 15 अथावाप्तसंयमस्य कदाचिन्मोहनीयोदयात् प्रसक्तायामरतौ अज्ञानकर्मलोभोदयाद्वा संयमस्य शैथिल्यप्रसङ्गेऽरत्यादिव्युदासेन तद्दार्थं सम्पादनीयमित्याशयेनाह - संयमरत्याऽरतिमज्ञानं ज्ञानेन लोभमलोभेन परिहरेत् ॥ २२ ॥ संयमरत्येति, सम्प्राप्तचारित्रावसरो नारतिं विदध्यात् स्वजनादिसमुद्भाविता मोहोदयात् कषायाभिष्वङ्गजनिता पश्चविधाचारविषयाऽरतिः तां संयमरत्या परिहरेत्, दशविधसामाचारीविषयक - 20 रत्या निवर्त्तयेत्, न चेयं रतिः किञ्चिद्वाधायै । संयमे चारतिरध्यात्मदोषै रज्ञान लोभादिभिर्भवतीत्याशयेनाहाज्ञानं ज्ञानेनेत्यादि, ननु विदितसंसारस्वभावस्य साधोर्ना रतिसम्भवः, सम्भवे वा नासौ विदिततव इति ज्ञानारत्योः शीतोष्णस्पर्शवत्सहानवस्थानलक्षणो विरोधः, अज्ञानी हि मोहाभिभूतमानसत्वाद्विषयाभिष्वङ्गतः संयमे रत्यभावं कुर्यान्न तु ज्ञानीति चेन्न, सम्प्राप्तचारित्रं प्रत्येवोपदेशात्, चारित्रावाप्तिश्च यद्यपि न ज्ञानं विना तथापि न ज्ञानारत्योर्विरोधोऽपि तु रत्यरत्योरेव, अरत्या संयमरतेरेव 25 बाध्यमानत्वात्, तस्माज्ज्ञानिनोऽपि चारित्रमोहोदयात्संयमे स्यादेवारतिः, ज्ञानस्याज्ञानं प्रत्येव बाधकत्वात् न तु संयमारतिं प्रति । संयमारतिनिवृत्तश्चाष्टप्रकारेभ्यः कर्मभ्यस् संसारबन्धनेभ्यो विषया भिष्वङ्गस्नेहादिभ्यो वा मुक्तो भवति । अज्ञानं ज्ञानेनेति, न ज्ञानमज्ञानं सम्यग्ज्ञानादितरज्ज्ञानमनवबोधो वा, संशयविपर्ययादिरूपमिथ्याज्ञानं वा मिध्यात्वसंवलितशास्त्रसंस्कारो वा, मोहनीयोदयात्तदा पन्नाः केचिदवाप्तचारित्रा अपि परीषहोपसगैः स्पृष्टाः कर्त्तव्याकर्त्तव्यज्ञानविधुरा निखिलद्वन्द्वप्रतिद्वन्द्वि 30 संयमात् परावर्त्तन्ते मिध्यात्वमोहनीयावृतत्वात् कण्डरीकादय इव । परे तु निजधिषणापरिकल्पितवृत्तयोऽनेकैरुपायैर्लोकादर्थं संजिघृक्षवो वयं संसारोद्विमा मुमुक्षवोऽपरिग्रहिणो यथार्थभाषिण इत्येवं
SR No.022284
Book TitleSutrarth Muktavali
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuri Jain Granthmala
Publication Year1946
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy