________________
मुक्ता]
आचारलक्षणा।
४५ भावनीया । लक्षणम्-उपयोगादीन्येतेषां लक्षणानि, तत्रोपयोगो ज्ञानदर्शनरूपोऽव्यक्तोपयोगशक्तिरूपा, स्त्यानयुदयात् । योगः औदारिकतन्मिश्रकार्मणात्मकः कायलक्षण एक एव न मनोवचोरूपौ । अनभिलक्ष्याध्यवसायः, अष्टविधकर्मोदयभाक्त्वं तद्वन्धभाक्त्वं कृष्णनीलकापोततेजोलेश्यानुगतत्वं दशविधसंज्ञावत्त्वं सूक्ष्मोच्छासनिःश्वासानुगतत्वं सूक्ष्मकषायवत्त्वञ्च, एवंविधलक्षणैः पृथिव्याः सचित्तत्वं मनुष्यादिवत् । न चोपयोगादीनां पृथिवीकायेषु व्यक्ततयाऽप्रतीतेरुक्तलक्षणान्यसिद्धानि न साध्यसाधन- 5 समर्थानीति वाच्यम् , चेतनाचिह्नस्य समानजातीयाश्मलतोद्भेदादेरुपलम्भतस्तत्राव्यक्तचेतनायाः सद्भावात् , मदिरातिपानमत्तस्य श्वासोच्छ्रासादिचेतनाचिह्ननाव्यक्तचेतनासद्भाववत् । परिमाणम्-पृथिवीकायिका बादरपर्याप्ता बादरापर्याप्ताः, सूक्ष्मपर्याप्तास्सूक्ष्मापर्याप्ताश्चेति चतुर्विधाः, तत्र बादरपर्याप्तासंवर्तितलोकप्रतरासंख्येयभागवर्तिप्रदेशराशिप्रमाणाः, शेषास्त्रयोऽपि प्रत्येकमसंख्येयलोकाकाशप्रदेशराशिप्रमाणा भवन्ति, ततो बादरापर्याप्ता असंख्येयगुणाः, सूक्ष्मपर्याप्तास्ततोऽसंख्येयगुणाः ततः सूक्ष्मा-10 पर्याप्ता असंख्येयगुणाः । उपभोगः-चंक्रमणोर्ध्वस्थाननिषीदनत्वग्वर्तनकृतकपुत्रकरणोच्चारणप्रश्रवणोपकरणनिक्षेपालेपनाहरणभूषणक्रयविक्रयकृषीकरणभण्डकघट्टनादिषूपभोगविधिर्मनुष्यादीनां पृथिवीकायेन भवति । कारणैरेभिर्विमूढचेतसो निजसुखमन्वेषयन्तः परदुःखान्यजानानाः पृथिवीजीवान् हिंसन्ति । शस्त्रम्-तद्धि द्रव्यभावभेदतो द्विविधम् , द्रव्यशस्नमपि द्विविधम् , समासविभागभेदात् , हलकुलिकविषकुदालादिकं समासतो द्रव्यशस्त्रम् । स्वपरकायोभयभेदेन विभागद्रव्यशस्त्रं त्रिविधम्, पृथिव्या: 16 पृथिव्येव स्वकायशस्त्रम् , उदकादि परकायशस्त्रम् , भूदकं मिलितश्चोभयशस्नम् । भावशस्त्रन्तु दुष्प्रयुक्तमनोवाक्कायाः, अङ्गप्रत्यङ्गेषु पादादिकेषु छेदनभेदनादिना यथा नरस्य वेदनाः भवन्ति तदनुरूपा वेदनाः पृथिवीकायिकानामपीति वेदना । वधश्च प्रकारान्तरेणापि निर्लेपनिर्गन्धत्वादिकरणसम्भवेन ये स्वात्मानमनगारवादिनः कुतीथिका यतिवेषधारिणो गुदापाणिपादप्रक्षालनार्थ पृथिवीजन्तुविपत्तिमहर्निशं कुर्वन्ति न ते निरवद्यानुष्ठानरूपेष्वनगारगुणेषु प्रवर्त्तन्ते ते गृहस्थतुल्या एव, कलुषितह-20 दयत्वेन सदोषत्वेऽपि निर्दोषताभिमानात्, वधोऽयं कृतकारितानुमतिभिर्भवति, तद्व्यापादने चान्यानप्यप्कायप्रभृतीन व्यापादयति, उदुम्बरवटफलभक्षणप्रवृत्तस्य तदन्तर्गतत्रसजन्तुभक्षणवत् । निवृत्तिस्तुपृथिवीजीवान् सद्वधं बन्धश्च विज्ञाय ये यावज्जीवं कृतकारितानुमतिभिः पृथिवीसमारम्भात् व्युपरमन्ति तेषामनगाराणां भवतीति ॥ ११ ॥
एतदेव परिझयोपसंहरति
पृथिवीकायसमारम्भणं कर्मबन्धाय तद्विरतो मुनिः ॥ १२ ॥ . पृथिवीकायेति, कृतकारितानुमतिभिर्यः पूर्वव्यावर्णितशस्त्रविशेषैर्निजपरिपेलवजीवितादिरक्षणार्थ पृथिवीकायसमारम्भणमपरानेकप्राणिसमारम्भणाविनाभाविनं योगैर्विदधाति सोऽष्टविधकर्मबन्धको भवति, कर्मबन्धायेति सामान्येनोक्तेः पृथिवीकायसमारम्भोऽष्टविधस्यापि कर्मणो बन्धस्य निमित्तमिति सूचितम् । ननु ये न पश्यन्ति शृण्वन्ति जिघ्रन्ति गच्छन्ति च ते कथं वेदनामनुभवन्तीति ज्ञातव्यम् , 30 मैवम् , यथाहि कश्चिज्जात्यन्धो बधिरो मूकः कुष्ठी पङ्गुरनभिनिवृत्तपाण्याद्यवयवविभागो मृगापुत्रवत् पूर्व