SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ ३१ मुक्ता अनुयोगलक्षणी । aroraपूर्वी चौपनिधिकी पूर्वानुपूर्वी पश्चानुपूर्वी अनानुपूर्वी चेति त्रिधा, पूर्वानुपूर्वी समयावलिकोच्छ्रासनिःश्वासादयः । सर्वाद्धाऽनागताद्धाऽतीताद्धादिरूपा पश्चानुपूर्वी । एवमनानुपूर्व्यपि भाव्या ॥३६॥ अथोत्कीर्त्तनानुपूर्वीमाह - ऋषभादीनां पूर्वपश्चाद्व्युत्क्रमतो नामोच्चारणमुत्कीर्त्तनानुपूर्वी ॥ ३७ ॥ ऋषभादीनामिति, ऋषभः पूर्वमुत्पन्नत्वादादावुच्चार्यते ततोऽजितः ततस्सम्भवस्ततोऽभि- 5 नन्दनस्ततः सुमतिस्ततः पद्मप्रभ इत्येवं क्रमेण नामोच्चारणं पूर्वानुपूर्व्युत्कीर्त्तनानुपूर्वी । वर्द्धमानः पार्श्वः अरिष्टनेमिः नमिः मुनिसुत्रतो मल्लिरित्यादिपश्चादारभ्य प्रतिलोममुच्चारणं पञ्चानुपूर्व्यु कीर्त्तनानुपूर्वी । उक्तक्रमद्वयमुल्लंघ्य परस्परासदृशसम्भवद्भङ्गैः ऋषभादिनामोच्चारणमनानुपूर्व्यकीर्त्तनानुपूर्वी । नामोच्चारणमित्युक्त्या औपनिधिकी द्रव्यानुपूर्वीतो भेदः सूचितः, तत्र हि केवलं पूर्वानुपूर्व्यादिभावेन द्रव्याणां विन्यासमात्रं क्रियते, अत्र च तेषामेव तथैव नामोच्चारणमिति ॥ ३७ ॥ अथ गणनानुपूर्वीमाह— 10 तथैवैकादिसंख्याभिधानं गणनानुपूर्वी ॥ ३८ ॥ तथैवेति, पूर्वपञ्चाद्व्युत्क्रमत इत्यर्थः, एकं द्वे त्रीणि चत्वारीत्येवंक्रमेणाभिधानं पूर्वानुपूर्वीगणनानुपूर्वी, दशकोटिशतानि कोटीशतं दशकोटयः कोटिरित्येवं वर्णनं पश्चानुपूर्वीगणनानुपूर्वी, उक्तक्रमद्वयातिरेकेण सम्भवद्भिर्भङ्गैः संख्यानमनानुपूर्वीगणनानुपूर्वीत्यर्थः ॥ ३८ ॥ सम्प्रति संस्थानानुपूर्वीमाह - 15 एवमेव पञ्चेन्द्रियसंस्थानानुपूर्वी ॥ ३९ ॥ एवमेवेति, पूर्वपश्चाव्यत्क्रमत इत्यर्थः, आकृतिविशेषाः संस्थानानि, समचतुरस्रन्यग्रोधमण्डलसादिकुब्जवामनहुण्डरूपाणि षट्, तत्र सर्वप्रधानत्वात्समचतुरस्रस्यादावुपन्यासः, शेषाणान्तु यथाक्रमं हीनत्वाद्वितीयादित्वमित्थमेव पूर्वानुपूर्वी, शेषभावना पूर्ववत् । संस्थानानि जीवाजीवसम्बन्धि- 203 त्वेन द्विधा भवन्ति, इह च जीवसम्बन्धीनि तत्रापि पञ्चेन्द्रियसम्बन्धीनि विवक्षितानीति पश्चेन्द्रियेतिः विशेषितम् ॥ ३९ ॥ सामाचार्यानुपूर्वीमाचष्टे - ओघदशविधपदविभागसामाचार्यपि तथा ॥ ४० ॥ ओवेति, समाचरणं समाचारस्तस्य भावः सामाचारी, त्रिधा सा ओघदशविध पदविभाग- 25 भेदात् । ओघनिर्युक्तत्यभिहितार्थरूपा ओसामाचारी | इच्छाकारादिदशविधा सामाचारी दशविधसामाचारी | निशीथकल्पाद्यभिहितप्रायश्चित्तपविभागविषया पदविभागसामाचारी । दशविधा सामाचारी च विवक्षितक्रियाप्रवृत्त्यभ्युपगमात्करणमिच्छाकारः, अकृत्ये विषये यन्मयाऽऽचरितमसदेतदित्येवमेसत्क्रियानिवृत्यभ्युपगमो मिथ्याकारः, अविकल्प गुर्वाज्ञाभ्युपगमस्तथाकारः, ज्ञानाद्यालम्बनो - पाश्रयाद्वहिरवश्यं गमने समुपस्थितेऽवश्यं कर्त्तव्यमिदमतो गच्छाम्यहमित्येवं गुरुं प्रति निवेदनमाव - 30 श्यकी, बहिः कर्त्तव्यव्यापारेष्ववसितेषु पुनस्तत्रैव प्रविशतः साधोः शेषसाधुनामुत्रासादिदोषपरि
SR No.022284
Book TitleSutrarth Muktavali
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuri Jain Granthmala
Publication Year1946
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy