SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ अनुयोगलक्षण। ऋजुसूत्राविकमाश्रित्याह ऋजुसूत्रस्य द्विविधा शब्दनयस्य स्खेका ॥ २२ ॥ ऋजुसूत्रस्येति, विशुद्धतरो हि ऋजुसूत्रः स्वसमयपरसमयवक्तव्यतारूपां द्विविधामेव वक्तव्यतामिच्छति, तृतीयभेदस्य द्विविधेष्वेवान्तर्भावसम्भवेनासत्त्वान्न त्रैविध्यं वक्तव्यताया इति, शब्दनयस्य तु शब्दसमभिरुद्वैवंभूतरूपस्य शुद्धतमत्वेनैकविधत्वमेव वक्तव्यतायास्सम्मतत्वम् । नास्येवात्म-6 त्याद्यनर्थप्रतिपादकत्वेन परसमयस्यानर्थकत्वेन नास्येव परसमयवक्तव्यता, आत्मन एव भावे कस्य नास्तीति प्रतिषेधः क्रियेत, अत्यन्तानुपलब्ध्या नास्त्येवाऽऽत्मेत्यपि न सम्यक् , तद्वणस्य ज्ञानादेरुपलब्धेः युक्तिविरोधाच्चैकान्तक्षणभङ्गादेरसद्भूतत्वमेव, इत्येवमेतेषां मिथ्यादर्शनत्वेन नास्ति परसमयवक्तव्यता, स्यात्पदलाञ्छनसापेक्षत्वे चैषां स्वसमयवक्तव्यतान्तर्भाव एवेति ॥ २२ ॥ अथावश्यकमाश्रित्यार्थाधिकार निरूपयति 10 सावधविरत्युत्कीर्तनगुणवत्प्रतिपत्तिस्खलितनिन्दावणचिकित्सागुणधारणाभिरावश्यकस्यार्थाधिकाराष्षट् ॥ २३ ॥ सावद्यविरतीति, यो यस्य सामायिकाध्ययनस्यात्मीयोऽर्थस्तदुत्कीर्तनविषयोऽर्थाधिकारः, आवश्यकस्य षड्विधार्थाधिकारयोगात् षडध्ययनानि, तत्र सामायिकलक्षणं प्रथममध्ययनं, तत्र प्राणातिपातादिसर्वसावद्ययोगविरतिराधिकारः, क्रोधादयश्चत्वारोऽवद्यं, तेषां सर्वावद्यहेतुतया कारणे 15 कार्योपचारात्, तेनावद्येन सह यो योगो व्यापारस्तस्माद्विरतिरित्यर्थः । चतुर्विंशतिस्तवरूपं द्वितीयमध्ययनं, तत्र तीर्थंकराणां गुणोत्कीर्तनमर्थाधिकारः, प्रधानकर्मक्षयकारणत्वात् लब्धबोधिविशुद्धिहेतुत्वात् पुनर्बोधिलाभफलत्वात् सावद्ययोगविरत्युपदेशकत्वेनोपकारित्वाच्च । तृतीयं वन्दनाध्ययनं तत्र गुणवत्प्रतिपत्तिराधिकारः, व्रतपिण्डविशुद्ध्यादिरूपमूलोत्तरगुणवतो वन्दनादिकरणं पुष्टालम्बनेऽगुणवतोऽपि वन्दनादिकरणश्चेति । चतुर्थे प्रतिक्रमणे स्खलितनिन्दाऽाधिकारः, मूलोत्तरगुणेषु प्रमादा- 20 चीर्णस्य प्रत्यागतसंवेगस्य जन्तोर्विशुद्ध्यमानाध्यवसायस्याकार्यमिदमिति भावयतो निन्देत्यर्थः। कायो. त्सर्गाख्ये पञ्चमेऽध्ययने व्रणचिकित्साऽर्थाधिकार:, चारित्रपुरुषस्य योऽयमतिचाररूपो भावव्रणस्तस्य दशविधप्रायश्चित्तभेषजेन चिकित्साप्रतिपादनमित्यर्थः । षष्ठे तु प्रत्याख्यानाध्ययने गुणधारणाऽर्थाधिकारः, निरतिचारं मूलोत्तरगुणप्रतिपत्तिधारणाप्ररूपणमित्यर्थः । अर्थाधिकारः प्रतिपदमनुवर्तते, वक्तव्यता तु देशाविनियतेति विशेषः ॥ २३ ॥ अथान्तिमं शास्त्रीयभेदं समवतारमाह नामादिभिस्समवतारः षड्धा ॥ २४ ॥ नामादिभिरिति, आविना स्थापनाद्रव्यक्षेत्रकालभावानां महणम् । अविरोधेन वर्तनं सम-... वतारः, वस्तूनां स्वपरोभयेष्वन्तर्भावचिन्तनमिति यावत् स षोडा नामादिभिः । भव्यशरीरद्रव्यसमवतारं यावत्प्राग्वदूहनीयं । तदुभयव्यतिरिक्तश्चात्मसमवतारपरसमवतारतदुभयसमषतारमेषक-३० 26
SR No.022284
Book TitleSutrarth Muktavali
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuri Jain Granthmala
Publication Year1946
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy