SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ १२८ सूत्रार्षमुक्तावल्याम् [वतीया अन्येषामपि तथैव प्रतिपादयेत्, सदा यतमानोऽपि यो यस्य कर्त्तव्यस्य कालस्तं नोलायेत् , परस्पराबाधया च सर्वाः क्रियाः कुर्यात्, एवंगुणविशिष्टो यथाकालवादी यथाकालचारी च सर्वशोक्तं सम्यग्दर्शनज्ञानचारित्राख्यं समाधि सम्यगवगच्छति, स एव च प्रायवचनो निपुणः शुद्धसूत्रः सर्वशोक्तज्ञानादिप्रतिपादने योग्यश्चेति ॥ ४९ ॥ 5.... यसैकालिकं वस्त्ववगच्छति स एव भाषितुमर्हति नान्यः स एव च परिज्ञाता नोटयिता चेत्याह- . .......... . . ...... ............ ___घात्यन्तकृदनन्यसदृशज्ञः सत्यधर्मप्रणेता ॥ ५० ॥ घातीति, दर्शनज्ञानाद्यावरणकर्मणो निश्शेषं विनाशको यः स एव सर्वस्यापि वस्तुजातस्य यथावस्थितस्वरूपनिरूपणतः प्रणेता नायको भवति, कालत्रयभाविपर्यायतो द्रव्यादिचतुष्कस्वरूपतश्च 10 द्रव्यपर्यायपरिज्ञानात् , विशिष्टोपदेशदानेन सर्वप्राणिनां संसाराद्रक्षणशीलत्वाञ्च, नास्य संशयविपर्ययादयो वर्तन्ते तदावरणक्षयकारित्वात् , विनष्टघातिकर्मत्वादेवासावनन्यसदृशज्ञः, न ह्यस्य विज्ञानेन तुल्यो वस्तुगतसामान्यविशेषांशपरिच्छेदकः कश्चिद्विद्यते, अपरैर्द्रव्यपर्याययोरनभ्युपगमात्, यतश्चायं सत्यधर्मप्रणेताऽतो न केवलं हेयोपादेयमात्रपरिज्ञाता, किन्तु सर्वज्ञोऽनन्यसदृशज्ञः, न हि सर्वज्ञत्वमन्तरेणावितथभाषित्वं सत्यधर्मप्रणेतृत्वं वा सम्भवति सर्वप्राण्यादिविज्ञानाभावात् , तथा च सर्वत्राना16 श्वासो भवेत् । सत्यधर्मप्रणेतेति, संयमधर्मप्रकाशक इत्यर्थः, सर्वप्राणिहितकारित्वात्तस्य, तस्मात्तपःप्रधानेन सर्वभूतहितकारिणा संयमेन सदा सम्पन्नो भूतेषु दयां कुर्यात्, तदपकारितमारम्भं दूरतः परिवर्जयेत्, असौ धर्मस्तीर्थकृत इति सम्यक् परिज्ञाय तदङ्गतया पञ्चविंशतिरूपा द्वादशप्रकारा वा भावना जीवसमाधानकारिणीर्भावयेत्, भावनायोगेन शुद्धान्तःकरणो हि परित्यक्तसंसारस्वभावः संसारसमुद्रे न निमज्जति, किन्त्वायतचारित्री जीवपोतः सदागमलक्षणकर्णधाराधिष्ठितस्तपोमारुत30 वशात्सर्वदुःखात्मकस्य संसाराम्बोधेः परं पारं मोक्षाख्यमधिगच्छति, भावनायोगशुद्धात्मा संसारे वर्त मानो मनोवाकायेभ्योऽशुभेभ्यो मुच्यते, सावद्यानुष्ठानलक्षणं पापं तत्कार्यमष्टप्रकार कर्म च ज्ञपरिज्ञया परिज्ञाय प्रत्याख्यानपरिज्ञया च तदुपादानं परिहरन् ततो मुच्यते, तस्य नूतनकर्माण्यकुर्वतो निरुद्धाश्रवद्वारस्य विकृष्टतपश्चरणवतः पूर्वसञ्चितानि कर्माणि निवर्तन्ते नवञ्चाकुर्वतोऽशेषकर्मक्षयो भवति, न पुनरपि स्वतीर्थनिकारदर्शनात्संसाराभिगमनं भवति, योगप्रत्ययाभावेन नूतनकर्माभावात् , तस्य स्वदर्श26 ननिकाराभिनिवेशासम्भवाच्च, उपरताशेषद्वन्दुत्वाद्रागद्वेषरहिततया स्वपरकल्पनाभावात् । असावेवाष्टप्रकार कर्म कारणतस्तद्विपाकतश्च जानाति, तन्निर्जरणं तदुपायञ्च जानीते ततश्चासौ तत्करोति येनास्मिन् संसारे न पुनर्जायते न वा पुनर्पियते ॥५०॥ निरुद्धाश्रवद्वारस्य न जन्मजरामरणानीत्याह परित्यक्तबीसङ्गो धर्मी निष्ठितार्थः ॥ ५१॥ 30. परित्यक्तेति, आश्रवाणां प्रधानत्वात् , केषाश्चिदर्शनेऽनोपभोगस्य निराश्रवत्वस्य स्वीकारेण तमिरासाय तथाऽस्य निरपवादत्वान्मैथुनपरित्यागः कण्ठत उक्तः, उपलक्षणतयाऽपरवतानामपिः
SR No.022284
Book TitleSutrarth Muktavali
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuri Jain Granthmala
Publication Year1946
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy