SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ मुक्ती] सूत्रहतलक्षणां। संसारे यातनास्थानगतो भृशं पीड्यते । तस्मादक्रोधनेनाकर्कशभाषिणा मध्यस्थेनाऽऽचार्यादीनां यथोपदेशं क्रियासु प्रवृत्तेन मौनीन्द्रमार्गे एकाम्तेन श्रद्धालुना भाष्यम्, अयमेव च परमार्थतः पुरुपार्थकारी सुकुलोत्पन्नः संयमकरणशीलो यथोपदेशं प्रवृत्तोऽकषायी च नापरः । एवमहमेव संयमवान् मूलोत्तरगुणानां सम्यक्पालको विकृष्टतपोनिष्टप्तदेहश्च नान्य इति मत्वाऽपरं साधुलोकमन्यं वा नावमन्येत, तथा लाभपूजासत्कारादिना न मदं कुर्यात् , मदस्थानस्थो हि न सर्वज्ञमार्गगामी भवति, तस्मात्संयममादाय ज्ञानादिना यः परमार्थमबुध्यमानः प्रमाद्यति पठन्नपि शास्त्राणि तदर्थमवगच्छन्नपि नासौ सर्वज्ञमतं परमार्थतो जानाति, अतः प्रबजितोऽपरिग्रही उच्चैर्गोत्रे समुत्पन्नोऽपि नैव गर्षमुपेयात् , न हि जात्यादिमदस्थानं संसारपरित्राणक्षमम् , किन्तु ज्ञानचरणे, ज्ञानक्रियाभ्यां मोक्ष इति वचनात् , तथाऽहमेव भाषाविधिज्ञः साधुवादी न च मत्तुल्यः प्रतिभावानस्ति नापि मत्समानोडलौकिको लोकोत्तरशास्त्रार्थविशारदो गाढप्रज्ञः सुभावितात्मा चेत्येवं मन्यमानो धर्मकथावसरे सभायां 10 वा किमनेन वाकुण्ठेन दुर्दुरूढेन कुण्डिकाकार्पासकल्पेन खसूचिना कार्यमिति नान्यं जनमवमन्येत, एवं लाभादिमदोऽपि न कार्यः, परित्यक्तसर्वमदस्थाना महर्षयस्तपोविशेषशोषितकल्मषाः सर्वोत्तमा गतिं व्रजन्ति तस्मान्मदस्थानानि संसारकारणत्वेन सम्यक् परिज्ञाय धीर आत्मनः पृथक् कुर्यात् , मदस्थानरहितश्च स्नानविलेपनादिशरीरसंस्काररहितः प्रशस्तलेश्योऽवगतश्रुतचारित्रो गवेषणग्रहणैषणादिवेत्तोद्गमादिदोषतत्परिहारतत्फलाभिज्ञोऽनपानादावगृद्धः सम्यक् शुद्धभिक्षाग्रहणेन विहरेत् , न 18 त्वनाविभवाभ्यासादुत्पन्नामरतिमाश्रयेत्, किन्तु संसारस्वभावं परिगणय्य तिर्यनारकादिदुःखञ्चोप्रेक्षमाणः स्वल्पं च संसारिणामायुरित्येवं विचिन्य तामभिभवेत् , गच्छवासी जिनकल्पिकादिर्वा केनचित् पृष्टोऽपृष्टो वा धर्मकथावसरेऽन्यदा वा मौनी भवेदथवा संयमाबाधया धर्मसम्बद्धं किञ्चिद्रूयात् , परदोषोद्धट्टनया मर्मवेधिनो वाचो न ब्रूयात् । यथार्ह धर्मदेशना विधेया, अयं जनोऽभिगृहीतोऽनभिगृहीतो वेति परिज्ञाय धर्मदेशनां कुर्यात् , यथा सर्वथा तस्य श्रोतुर्जीवादिपदार्थावगमो 10 भनेत्, मनस्तस्य न दूष्येत, अपि तु प्रसन्नता यायात्, अन्यथा हि स्वधर्मस्थापनेच्छया तीर्थिकतिरस्कारप्रायं वचो निशम्य स्खदर्शनाग्रही तीर्थिकस्तद्वचनमप्रतिपद्यमानोऽतिकटुकं भावयन् क्षुद्रत्वं गच्छेद्विरूपमपि कुर्यात् , पालकपुरोहितवत् स्कन्दकाचार्यस्य । तथा श्लाघापूजासत्कारादिनिरपेक्षो पर्षदनुगुणं त्रसस्थावरेभ्यो हितं धर्ममाविर्भावयेत्, न तु श्रोतृप्रियं राजकथाविकथादिकं छलितकथादिकं तत्समाश्रितदेवताविशेषनिन्दादिकश्च कथयेत् । तदेवं याथातथ्यमुत्प्रेक्षमाणः सर्वेषु प्राणिषूपरत-28 दण्डो जीवितमरणानपेक्षी संयमानुष्ठानं पालयेत् ॥ ४६॥ अथ सम्यक् चारित्रस्य पूर्वोदितस्य बाह्याभ्यन्तरग्रन्थपरित्यागादवदाततेत्याह... गुरुकुलवासी सुसाधुक्रियः॥४७॥ गुर्विति, धनधान्यहिरण्यादिप्रन्थमुत्सृज्य प्रत्रजितः शिक्षामाही साधुः महणलक्षणामासेवनालक्षणाश्च शिक्षामासेवमान आचार्यान्तिके यावज्जीवं वसमानो यावदभ्युद्यतविहारं न प्रतिपद्यते 50 तावत्सदाऽऽज्ञाविधायी ग्रहणासेवनाभ्यां विनयं सम्यक् परिपालयेत्, न तु संयमानुष्ठाने सदाचार्योपपेशे च प्रमादं कुर्यात्, यथा यातुरः सबैयोपदेशं कुर्वन् सापां लभतें रोगोपशमन तथा साधुरपि
SR No.022284
Book TitleSutrarth Muktavali
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuri Jain Granthmala
Publication Year1946
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy