SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ ११६ सूत्रार्थमुक्तावल्याम् [ तृतीया कालय रुष्णशीतवीर्यपरिणामोऽपदद्रव्यवीर्यम् । आहारावरणप्रहरणेषु यद्वीर्य तदचित्तद्रव्यवीर्यम्, एषां मिश्रणेन मिश्रद्रव्यवीर्यम् । देवकुर्वादिक्षेत्रमाश्रित्याखिलानि द्रव्याणि तदन्तर्गतान्युत्कृष्टवीर्य - वन्ति, तथा यद्दुर्गादिक्षेत्राश्रयाद्यस्य वीर्योल्लासस्तत्, यस्मिन् वा क्षेत्रे वीर्यं व्याख्यायते तत्सर्वं क्षेत्रवीर्य, कालवीर्यमध्येकान्तसुषुमादौ द्रव्येषु यद्वीर्यं व्याख्याश्रयः कालश्च । वीर्यवतो जीवस्य 5वीर्यविषयेऽनेकविधा लब्धिः, तच्च वीर्यं शारीरमैन्द्रियमाध्यात्मिकञ्च, आन्तरव्यापारेण गृहीत्वा मनोयोग्यान् पुद्गलान् भाषायोग्यान् काययोग्यानानपानयोग्यान् वा तत्तद्भावेन यत्परिणामयति, तद्भावपरिणतानाञ्च मनोवाक्कायादीनां यद्वीर्यं तद्विविधम्, सम्भवे सम्भाव्ये च, सम्भवे तावत्तीर्थकृतामनुत्तरोपपातिकानाञ्च सुराणामतीव पटूनि मनोद्रव्याणि भवन्ति, तीर्थकृतामनुत्तरोपपातिकसुरमन:पर्याय ज्ञानिप्रश्नव्याकरणस्य द्रव्यमनसैव करणात्, अनुत्तरोपपातिकसुराणां सर्वव्यापारस्यैव मनसा 10 निष्पादनात् । सम्भाव्ये तु यो यमर्थ पटुमतिना प्रोच्यमानं न शक्नोति परिणमयितुं साम्प्रतं संभाव्यते त्वेष परिकर्म्यमाणइशक्ष्यत्यमुमर्थं परिणमयितुमिति । वाग्वीर्यमपि द्विविधं सम्भवे सम्भाव्ये च, तत्र सम्भवे तीर्थकृतां योजनविहारिणी वाक् सर्वस्वस्वभाषानुगता च, तथाऽन्येषामपि क्षीरमध्वास्रवादिलब्धिमतां वाचः सौभाग्यमिति हंसकोकिलादीनां सम्भवति स्वरमाधुर्यम् । सम्भाव्ये तु सम्भाव्यते श्यामायाः स्त्रिया गानमाधुर्यम्, तथा सम्भावयाम एनं श्रावकदारकमकृतमुख संस्कारमप्यक्षरेषु पहुं 15 यथावदभिलप्तव्येष्विति । तथा सम्भावयामश्शुकसारिकादीनां वाचो मानुषभाषापरिणामम्, कायवीर्यमपि द्विविधं सम्भवे सम्भाव्ये च, सम्भवे यथा चक्रवर्त्तिबलदेव वासुदेवादीनां यद्वाहुबलादिकायबलं तद्यथा कोटिशिला त्रिपृष्ठेन वासुदेवेन वामकरतलेनोद्धृता, सम्भाव्ये तु सम्भाव्यते तीर्थकरो लोकमलोके कन्दुकवत् प्रक्षेतुं मेरुं दण्डवगृहीत्वा वसुधां छत्रकवद्धर्तुमिति, सम्भाव्यते चान्यतरसुराधिपो जम्बूद्वीपं वामहस्तेन छत्रकवद्धर्तुमयत्नेनैव च मन्दरमित्यादि । इन्द्रियबलमपि श्रोत्रेन्द्रियादिस्वविषय20 ग्रहणसमर्थं पञ्चधा, एकैकं द्विविधं सम्भवे सम्भाव्ये च, सम्भवे यथा श्रोत्रस्य द्वादश योजनानि विषयः, एवं शेषाणामपि यो यस्य विषय इति । सम्भाव्ये तु यस्य कस्यचिदनुपहतेन्द्रियस्य श्रान्तस्य क्रुद्धस्य पिपासितस्य परिग्लानस्य वाऽर्थग्रहणासमर्थमपीन्द्रियं सद्यथोक्तदोषोपशमे सति सम्भाव्यते विष - यग्रहणायेति । आन्तरशक्तिजनितमाध्यात्मिकं वीर्यमनेकधा, उद्यमधृतिधीरताशौंडीर्यक्षमागाम्भीर्योपयोगतपस्संयमादिभेदात्, उद्यमो ज्ञानतपोऽनुष्ठानादिषूत्साहः, धृतिः संयमे स्थैर्यम्, धीरता 25 परीषहोपसर्गाक्षोभ्यता, शौण्डीर्यं त्यागसम्पन्नता, आपद्यविषण्णता, विषमे कर्त्तव्ये समुपस्थितेऽविषता वा, क्षमा परैराश्यमानस्यापि क्षोभानवाप्तिः, गाम्भीर्यं परीषहोपसर्गैरधृष्यत्वं, मनश्चमत्कार - कारिण्यपि स्वानुष्ठाने नौद्धत्यम्, उपयोगवीर्यञ्च साकारानाकारभेदवत्, साकारोपयोगोऽष्टधा अनाकारोपयोगञ्चतुर्धा, योगवीर्यं मनोवाक्कायभेदतस्त्रिविधम्, अकुशलमनोनिरोधः कुशलमनसः प्रवर्त्तनं मनोवीर्यम्, अपुनरुक्तनिरवद्यभाषणं वाग्वीर्यम्, समाहितपाणिपादस्य कूर्मवदवस्थानं कायवीर्यम्, 30 अग्लानतया तपोविधानं तपोवीर्यम्, एकत्वाद्यध्यवसायिनः सप्तदशविधसंयमप्रवृत्तिः संयमवीर्यमित्यादिरूपं भाववीर्यम् । सर्वमध्येतद्भाववीर्यं पण्डितबालमिश्रभेदात् त्रिविधम्, अनगाराणां पण्डित - वीर्यम्, बालपण्डितवीर्यन्त्वगाराणाम्, तत्र यतीनां पण्डितवीर्यं सादिसपर्यवसितम्, सर्वविरतिप्रति
SR No.022284
Book TitleSutrarth Muktavali
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuri Jain Granthmala
Publication Year1946
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy